SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 43 // 1 शतके उद्देशकः 1 सूत्रम् 12 नारकानां पुद्रलभेदचयोपचयोदीरणवेदननिर्जराऽऽदि अष्टादश प्रश्नाः / 10 संकामेति 11 संकामिस्संति 12 निहत्तिंसु 13 निहत्तेति 14 निहत्तिस्संति 15 निकायंसु 16 निकायंति 17 निकाइस्संति 18, सव्वेसुवि कम्मदव्ववग्गणमहिकिच्च गाहा- भेइयचिया उवचिया उदीरिया वेइयाय निजिन्ना / उय(व्व)ट्टण-संकामण-निहत्तणनिकायणे तिविहकालो॥१॥॥सूत्रम् 12 // नेरइयाणं भंते! कइविहा पोग्गला भिज्जती त्यादि व्यक्तम्, नवरं भिज्जंति त्ति तीव्रमन्दमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्तनकरणापवर्तनकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तु मन्दरसा भवन्तीत्यर्थः, उत्तरम्, कम्मदव्ववग्गणमहिकिच्च त्ति समानजातीयद्रव्याणां राशिर्द्रव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आह, कर्मरूपा द्रव्यवर्गणा कर्मद्रव्याणां वा वर्गणा कर्मद्रव्यवर्गणा तामधिकृत्य तामाश्रित्य, कर्मद्रव्यवर्गणासत्का इत्यर्थः, कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम्, अणूंचेव बायरा चेव त्ति चेवशब्दः समुच्चयार्थः, ततश्चाणवश्वबादराश्च, सूक्ष्माश्चस्थूलाश्चेत्यर्थः, सूक्ष्मत्वंस्थूलत्वं चैषां कर्मद्रव्यापेक्षयैवावगन्तव्यं नान्यापेक्षया, यत औदारि-2 कादिद्रव्याणां मध्ये कर्मद्रव्याण्येव सूक्ष्माणीति / एवं चयोपचयोदीरणवेदननिर्जराः शब्दार्थभेदेन वाच्याः, किन्तु चयसूत्र उपचयसूत्रे चाऽऽहारदव्ववग्गणमहिकिच्चे ति यदुक्तं तत्रायमभिप्रायः,शरीरमाश्रित्य चयोपचयौ प्राग्व्याख्यातौ, तौचाहारद्रव्येभ्य एव भवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेषूक्तं कर्मद्रव्यवर्गणामधिकृत्येति / उयटिंसु त्ति, अपवर्त्तितवन्तः, इहापवर्त्तनं कर्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम्, अपवर्तनस्य चोपलक्षणत्वादुद्वर्त्तनमपीह दृश्यम्, तच्च स्थित्यादेर्वृद्धिकरणस्वरूपम्, संकामेंसुत्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं तथा चाह मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy