________________ श्रीभगवत्याई श्रीअभय वृत्तियुतम् भाग-१ // 41 // १शतके उद्देशकः१ सूत्रम् 10 नारकाणामाहारपरिणतचितादि चतुःप्रश्नानां त्रिषष्ठीप्रश्नाः। पुव्वाहारिय त्ति ये पूर्वमाहृताः पूर्वकाल एकीकृताः संगृहीता इतियावदभ्यवहृता वा, पोग्गले ति स्कन्धाः, परिणय त्ति ते परिणताः पूर्वकाले शरीरेण सह संपृक्ताः परिणतिंगता इत्यर्थः, इति प्रथमः प्रश्नः 1, इह च सर्वत्र प्रश्नत्वं काकुपाठादवगम्यते। तथा आहारियत्ति पूर्वकाल आहृताः संगृहीता अभ्यवहृता वा, आहरिजमाण त्ति, येच वर्तमानकाल आह्रियमाणाः सङ्गामा अभ्यवह्रियमाणा वा पुद्गलाः, परिणय त्ति ते परिणता इति द्वितीयः। तथा, अणाहारियत्ति येऽतीतकालेऽनाहृताः, आहारिज्जि|स्समाणेत्ति ये चानागते काल आहरिष्यमाणाःपुद्गलास्ते परिणता इति तृतीयः३।तथा अणाहारिया अणाहारिजिस्समाणे इत्याद्यतीतानागताहरणक्रियानिषेधाच्चतुर्थः 4 / इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहृता आह्रियमाणा आहरिष्यमाणा अनाहता अनाह्रियमाणा अनाहरिष्यमाणाश्चेति षट्पदानीह सूचितानि, तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पञ्चदश, त्रिकयोगे विंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे षट्, षड्योग एक इति // अत्रोत्तरमाह गोयमे त्यादि व्यक्तम्, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् 1 / ये पुनराहृता आह्रियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्ति चाह्रियमाणानां परिणामभावस्य वर्त्तमानत्वादिति २।वृत्तिकृता तु द्वितीयप्रश्नोत्तरविकल्प एवंविधो दृष्टः, यदुताहृता आहरिष्यमाणाः पुद्गलाः परिणताः परिणस्यन्ते च, यतोऽयं तेनैवं व्याख्यातः, यदुत ये पुनराहृता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्च ये संपृक्ताः शरीरेण सह, ये तु न तावत्संपृच्यन्ते कालान्तरे तुसंपृक्ष्यन्ते ते परिणंस्यन्त इति 2 / ये पुनरनाहृता आहरिष्यन्ते पुनस्ते नो परिणताः,अनाहतानां संपर्काभावेन परिणामाभावात्, यस्मात्त्वाहरिष्यन्ते ततः परिणंस्यन्ते,आहृतस्यावश्यं परिणामभावादिति 3 / चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति 4 / एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति // 10 // // 41