________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 35 // सूत्रम् 9 |नारकाणां च्छ्वासा प्रश्राः अतिदुःखव्याप्तस्य च निरन्तरमेवोच्छ्रासनिःश्वासौ दृश्यते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह, संतयामेव त्ति १शतके सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात्, आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचन आदरोप उद्देशक:१ दर्शनार्थम्, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनः पुन्येन प्रश्नश्रवणार्थनिर्णयादिषु घटन्ते / स्थित्युलोके चाऽऽदेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति ॥अथ तेषामेवाहारं प्रश्नयन्नाह णेरइयाणमि त्यादि व्यक्तम्, नवर माहारट्ठित्ति, आहारमर्थयन्ते प्रार्थयन्त इत्येवंशीलाः, अर्थोवा प्रयोजनमेषामस्तीत्यर्थिनः, आहारेण भोजनेनार्थिन ऽऽहारादिआहारार्थिनः, आहारस्य भोजनस्य वाऽर्थिन आहारार्थिनः, जहा पन्नवणाए त्ति, आहारट्ठी त्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य पढमए त्ति, आद्ये, आहारउद्देसए त्ति, आहारपदस्याष्टाविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशकः तत्र भणितं तहा भाणियव्वं ति तेन प्रकारेण वाच्यमिति / तत्र च नारकाऽऽहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थं पूर्वोक्तस्थित्युच्छ्रासलक्षणद्वारद्वयदर्शनपूर्विकांगाथामाह ठिइगाहा व्याख्या, स्थिति रकाणांवाच्या, उच्छ्रासश्च, तौ चोक्तावेव / तथा, आहारे त्ति, आहारविषयो विधिर्वाच्यः, स चैवम्, णेरइयाणं भंते! आहारट्ठी?, हंता आहारट्ठी 3 / णेरइयाणं भंते! केवइकालस्स आहारट्ठे समुप्पज्जइ?, आहारार्थः, आहारप्रयोजनमाहारार्थित्वमित्यर्थः, गोयमा! णेरइयाणं दुविहे आहारे पन्नत्ते, अभ्यवहारक्रियेत्यर्थः तंजहा- आभोगनिव्वत्तिए य अणाभोगनिव्वत्तिए य, तत्राभोगोऽभिसन्धिस्तेन निर्वर्तितः कृत आभोगनिर्वर्तितः, आहारयामीतीच्छापूर्वक इत्यर्थः, अनाभोगनिर्वर्तितस्त्वाहारयामीति विशिष्टेच्छामन्तरेणापि, प्रावृट्काले प्रचुरतरप्रश्रवणाधभिव्यङ्गचशीतपुद्गलाद्याहारवत्, तत्थ णं जे से अणाभोगनिव्वत्तिए सेणं अणुसमयमविरहिए आहारट्ठे समुप्पज्ज 'अणुसमय'ति प्रतिक्षणंसततातितीव्रक्षुद्वेदनीयकर्मोदयत ओजआहारादिना प्रकारेणेति, अविरहिए त्ति चुक्कस्खलितन्यायादपिल // 5 //