________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 34 // स्थित्यु च्छवासाऽऽहारादिप्रश्नाः / नेरइयाणं भंते! केवइकालं ठिई पन्नत्ता?, गोयमा! जहन्नेणं दस वाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाइं ठिई पन्नता 1 / 1 शतके नेरइयाणंभंते! केवइकालस्स आणमंति वा पाणमंति वा ऊससंति वाणीससंति वा?, जहा ऊसासपए 2 / नेरइयाणंभंते आहारट्ठी?, उद्देशकः१ सूत्रम् 9 जहा पन्नवणाए पढमए आहारुद्देसए तहा भाणियव्वं 3 // ठिई उस्सासाहारे किंवाऽऽहारेंति 36 सव्वओवावि 37 / कतिभागं? 38 नारकाणांसव्वाणि व 39 कीस व भुजो परिणमंति?॥१॥॥सूत्रम् // निर्गतमयम्, इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिका नारकास्तेषां नैरयिकाणां भंते त्ति भदन्त! केवइकालं तिक कियांश्चासौ कालश्चेति कियत्कालस्तं कियत्कालं यावत् ठिइ त्ति, आयुःकर्मवशान्नरकेऽवस्थानं पन्नत्त त्ति प्रज्ञप्ता प्ररूपिता? भगवद्भिरन्यतीर्थकरैश्चेति प्रश्नः, गोयमे त्यादि निर्वचनं व्यक्तमेव, नवरं दस वाससहस्साई ति प्रथमपृथिवीप्रथमप्रस्तटापेक्षया / तेत्तीसं सागरोवमाइं ति सप्तमपृथिव्यपेक्षयेति, मध्यमा तु जघन्यापेक्षया समयाद्यधिका सामर्थ्यगम्येति / अनन्तरं नारकाणां स्थितिरुक्ता, ते चाच्छासादिमन्त इत्युच्छ्रासादिनिरूपणायाह नेरइयाण मित्यादि व्यक्तम्, नवरं केवइकालस्स त्ति प्राकृतशैल्या कियत्कालात्कियता कालेनेत्यर्थः, आणमंति त्ति, आनन्ति, अन प्राणन इति धातुपाठाद्, मकारस्याऽऽगमिकत्वात्पाणमंति त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वयं क्रमेणार्थतः स्पष्टयन्नाह, ऊससंति वा नीससंति व त्ति यदेवोक्तमानन्ति तदेवोक्तमुच्छ्रसन्तीति, तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निःश्वसन्तीति, अथवाऽऽनमन्ति प्राणमन्तीति णमु प्रहृत्व इत्येतस्यानेकार्थत्वेन श्वसनार्थत्वात्, अन्ये त्वाहुः, आनन्ति वा प्राणन्ति वे त्यनेनाध्यात्मक्रिया परिगृह्यते, उच्छ्रसन्ति वा निःश्वसन्ति वे त्यनेन च बाह्येति / जहा ऊसासपए त्ति, एतस्य प्रश्नस्य निर्वचनं यथोच्छ्रासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यम्, तच्चेदम्, गोयमा! सययं संतयामेव आणमंति वा पाणमंति वा ऊससन्ति वा नीससंति वे ति, तत्र सततमनवरतम्, अतिदुःखिता हि ते,