________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 33 // स्थित्यु च्छ्वासा प्रश्राः / विशेषयति, कथं?, त्रिकालविषयं यथा भवतीति संवादगाथार्थः / अन्ये तु कर्मेतिपदस्य सूत्रेऽनभिधानाच्चलनादिपदानि 1 शतके सामान्येन व्याख्यान्ति, न कर्मापेक्षयैव, तथाहि चलमाणे चलिए त्ति, इह चलनमस्थिरत्वपर्यायेण वस्तुन उत्पादः / वेइज्जमाणे व उद्देशकः१ सूत्रम् 9 वेइए त्ति व्येजमान कम्पमानं व्येजितं कम्पितम्, एजृ कम्पन इति वचनात्, व्येजनमपि तद्रूपापेक्षयोत्पाद एव / उदीरिज्जमाणे नारकाणांउदीरिए त्ति, इहोदीरणं स्थिरस्य सतः प्रेरणम्, तदपि चलनमेव, पहिज्जमाणे पहीणे त्ति प्रहीयमाणं प्रभ्रश्यत्परिपतदित्यर्थः, प्रहीणं प्रभ्रष्टं परिपतितमित्यर्थः, इहापि प्रहाणं चलनमेव, चलनादीनां चैकार्थत्वं सर्वेषां गत्यर्थत्वात् / उप्पन्नपक्खस्स त्ति है ऽऽहारादिचलत्वादिना पर्यायेणोत्पन्नत्वलक्षणपक्षस्याभिधायकान्येतानीति / तथा छेदभेददाहमरणनिर्जरणान्यकर्थािन्यपि व्याख्येयानि, तद्व्याख्यानं च प्रतीतमेव, भिन्नार्थता पुनरेषामेवं कुठारादिना लतादिविषयश्छेदः, तोमरादिना शरीरादिविषयो भेदः, अग्निना दार्वा (द्यर्था) दिविषयो दाहः, मरणं तु प्राणत्यागः, निर्जरा त्वतिपुराणीभवनमिति, विगयपक्खस्स त्ति भिन्नार्थान्यपि सामान्यतो विनाशाभिधायकान्येतानीत्यर्थः, न च वक्तव्यं किमेतैश्चलनादिभिरिह निरूपितैः?, अतत्त्वरूपत्वादेषाम्, अतत्त्व-8 रूपत्वस्यासिद्धत्वात्, तदसिद्धिश्च निश्चयनयमतेन वस्तुस्वरूपस्य प्रज्ञापयितुमारब्धत्वात्, तथाहि, व्यवहारनयश्चलितमेव चलितमिति मन्यते, निश्चयस्तु चलदपिचलितमिति, अत्र च बहुवक्तव्यं तच्च विशेषावश्यकादिहैवाभिधास्यमानजमालिचरिताद्वाऽवसेयमिति ॥८॥इहाद्ये प्रश्नोत्तरसूत्रद्वये मोक्षतत्त्वं चिन्तितम्, मोक्षः पुनर्जीवस्य, जीवाश्च नारकादयश्चतुर्विंशतिविधाः, यदाह नेड्या 1 असुराई 10 पुढवाई 5 बेंदियादओ 3 चेव। पंचिंदियतिरिय 1 नरा 1 वंतर 1 जोइसिय 1 वेमाणि 1 (24) // 1 // तत्र नारकांस्तावस्थित्यादिभिश्चिन्तयन्नाह विशेषा० गा० 414-426 पर्यन्तं। 0 नैरयिकाः 1 असुरादयः 10 पृथ्व्यादयः 5 द्वीन्द्रियादयः 3 पञ्चेन्द्रियतिर्यग्नरौ व्यन्तराज्योतिष्का वैमानिकाः। 133