________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 32 // तिष्ठज्जीवतीत्युच्यते, कर्मवच जीवादपगच्छन्मियत इत्युच्यते, तच्च मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यम्, यतः 1 शतके संसारवर्तीनि मरणान्यनेकशोऽनुभूतानि दुःखरूपाणि चेति किंतैः?, इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरित उद्देशकः१ सूत्रम् 8 मपवर्गहेतुभूतं विवक्षितमिति / तथा निर्जीयमाणं निर्जीर्ण मित्येतत्पदंसर्वकर्माभावविषयम्, यतः सर्वकर्मनिर्जरणंन कदाचिदप्य- चलदाधेनुभूतपूर्वं जीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिनार्थं पदं भवति / अथैतानि पदानि कार्थादि प्रश्नाः / विशेषतो नानार्थान्यपि सन्ति सामान्यतः कस्य पक्षस्याभिधायकतया प्रवृत्तानीत्यस्यामाशङ्कायामाह विगयपक्खस्स त्ति, विगतं विगमो वस्तुनोऽवस्थान्तरापेक्षया विनाशः, स एव पक्षो वस्तुधर्मः, तस्य वा पक्षः परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं त्विहाशेषकर्माभावोऽभिमतो जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात्, तदर्थत्वाच्च पुरुषप्रयासस्येति, एतानि चैवं विगतार्थानि भवन्ति, छिद्यमानपदे हि स्थितिखण्डनं विगम उक्तः, भिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे त्वकर्मताभवनं विगमः, म्रियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीयमाणपदे त्वशेषकर्माभावो। विगमःउक्तः, तदेवमेतानि विगतपक्षस्य प्रतिपादकानीत्युच्यन्ते / एवं च यत्पञ्चमाङ्गादिसूत्रोपन्यासे प्रेरितम्, यदुत केनाभिप्रायेणेदं सूत्रमुपन्यस्तमिति, तत् केवलज्ञानोत्पादसर्वकर्मविगमाभिधानरूपसूत्राभिप्रायव्याख्यानेन निर्णीतमिति। एतत्सूत्रसंवादिसिद्धसेनाचार्योऽप्याह-उप्पज्जमाणकालं उप्पण्णं विगययं विगच्छंत। दवियं पण्णवयंतो तिकालविसयं विसेसेइ॥ 1 // इति, उत्पद्यमानकाल मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्त्तमानभविष्यत्कालविषय द्रव्यमुक्तम्, उत्पन्नमित्यनेन त्वतीतकालविषयम्, एवं विगतं विगच्छदित्यनेनापीति, ततश्चोत्पद्यमानादि प्रज्ञापयन्स भगवान्द्रव्यं / उत्पद्यमानकालमुत्पन्नं विगतं विगच्छत् / द्रव्यं प्रज्ञापयस्त्रिकालविषयं विशेषयति // इति सम्मतितर्के तृ० का०(भा०)गा०३७ // 32 //