________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 31 // चलदाधेकार्थादि एषां च पदानामेकार्थानामपि सतामयमर्थः सामर्थ्यप्रापितक्रमः, यदुत, पूर्वं तच्चलत्युदेतीत्यर्थः, उदितञ्च वेद्यतेऽनुभूयत १शतके उद्देशकः१ इत्यर्थः, तच्च द्विधा, स्थितिक्षयादुदयप्राप्तमुदीरणया चोदयमुपनीतम्, ततश्चानुभवानन्तरं तत्प्रहीयते, दत्तफलत्वाज्जीवादपया सूत्रम् तीत्यर्थः, एतच्च टीकाकारमतेन व्याख्यातम्, अन्ये तुव्याख्यान्ति, स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकार्थिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनि पदान्येकार्थिकानीत्युक्तेशेषाण्यनेकार्थिकानीति सामर्थ्यादव प्रश्नाः / गतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह छिज्जमाण इत्यादि, व्यक्तम्, नवरंणाणट्ठत्ति नानार्थानि, नानार्थत्वं त्वेवम्, छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयम्, यतःसयोगिकेवली, अन्तकाले योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानांसर्वापवर्त्तनयाऽऽन्तमौहूर्तिकं स्थितिपरिमाणं करोति / तथा भिद्यमानं भिन्न मित्येतत्पद-3 मनुभागबन्धाश्रयम्, तत्र च यस्मिन्काले स्थितिघातं करोति तस्मिन्नेव काले रसघातमपि करोति, केवलं रसघातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थं पदं भवति। तथा दह्यमानं दग्ध मित्येतत्पदंप्रदेशबन्धाश्रयम्,प्रदेशबन्धस्त्वनन्तानन्तप्रदेशानांस्कन्धानां कर्मत्वापादनम्,तस्य च प्रदेशबन्धकर्मणः सत्कानां पञ्चह्रस्वाक्षरोच्चारणकालपरिमाणयाऽसङ्ख्यातसमयया गुणश्रेणीरचनया पूर्वरचितानां शैलेश्यवस्थाभाविसमुच्छिन्नक्रियध्यानाग्निना प्रथमसमयादारभ्य यावदन्त्यसमयस्तावत्प्रतिसमयं क्रमेणासङ्खयेयगुणवृद्धानां कर्मपुद्गलानांदहनंदाहः, अनेन / च दहनार्थेनेदं पूर्वस्मात्पदाद्भिन्नार्थं पदं भवति, दाहश्चान्यत्रान्यथा रूढोऽपीह मोक्षचिन्ताऽधिकारान्मोक्षसाधन उक्तलक्षणकर्मविषय एव ग्राह्य इति / तथा म्रियमाणं मृत मित्येतत्पदमायुः कर्मविषयम्, यत आयुष्कपुद्गलानां प्रतिसमयं क्षयो मरणम्, अनेन च मरणार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाद्भिन्नार्थं पदं भवति / तथा म्रियमाणं मृत मित्यनेनायुः कमैवोक्तम्, यतः कर्मैवल