________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 30 // उप्पन्नपक्खस्स, छिन्नमाणे छिन्ने भिज्जमाणे भिन्ने दह(डज्झ)माणे दट्टे मिज्जमाणे मडे निजरिजमाणे निजिण्णे एए णं पंच पया १शतके णाणट्ठानाणाघोसा नाणावंजणा विगयपक्खस्स।सूत्रम् 8 // उद्देशकः१ सूत्रम् 8 व्यक्तम्, नवरमेगट्ठत्ति, एकार्थान्य नन्यविषयाण्येकप्रयोजनानि वा, नाणाघोस त्ति, इह घोषा उदात्तादयः, नाणावंजण त्ति, चलदाधेइह व्यञ्जनान्यक्षराणि, उदाहु त्ति, उताहोनिपातो विकल्पार्थः, नाणट्ठत्ति भिन्नाभिधेयानि, इह च चतुर्भङ्गी पदेषु दृष्टा, तत्र कार्थादि प्रश्ना : / कानिचिदेकार्थान्येकव्यञ्जनानि यथा क्षीरं क्षीरमित्यादीनि 1, तथाऽन्यान्येकार्थानि नानाव्यञ्जनानि यथा क्षीरंपय इत्यादीनि 2, तथाऽन्यान्यनेकार्थान्येकव्यञ्जनानि यथाऽळगव्यमाहिषाणि क्षीराणि 3, तथाऽन्यानि नानार्थानि नानाव्यञ्जनानि यथा घटपटलकुटादीनि 4 / तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनतया छ तदन्ययोरसम्भवात्, निर्वचनसूत्रे तु चलनादीनि चत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनि तु पञ्च पदान्याश्रित्य चतुर्थ इति / ननु चलनादीनामर्थानां व्यक्तभेदत्वात् कथमाद्यानि चत्वारि पदान्येकार्थानि? इत्याशङ्कयाह उप्पन्नपक्खस्स त्ति, उत्पन्नमुत्पादो भावे क्लीबेक्तप्रत्ययविधानात्, तस्य पक्षः परिग्रहोऽङ्गीकारः, पक्ष परिग्रह इति धातुपाठादित्युत्पन्नपक्षः, इह च षष्ठ्यास्तृतीयार्थत्वादुत्पन्नपक्षणोत्पादाङ्गीकारेण, उत्पादाख्यं पर्यायं परिगृौकार्थान्येतान्युच्यन्ते, अथ उत्पन्नपक्षस्योत्पादाख्यवस्तुविकल्पस्याभिधायकानीति शेषः, सर्वेषामेषामुत्पादमाश्रित्यैकार्थकारित्वादेकान्तर्मुहूर्त्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद एव, यतः कर्मचिन्तायां कर्मणः प्रहाणे: फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेनन कदाचिदपि प्राप्तपूर्वः यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः, तस्मात्स एव केवलज्ञानोत्पत्तिपर्यायोऽभ्युपगतः, // 30 //