________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 29 // प्रश्रा: निजिण्णे त्ति, निर्जीर्यमाणं नितरामपुनर्भावेन क्षीयमाणं कर्म निर्जीर्णं क्षीणमिति व्यपदिश्यते, निर्जरणस्यासङ्खयेय- 1 शतके समयभावित्वेन तत्प्रथमसमय एव पटनिष्पत्ति दृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्वादिति, पटदृष्टान्तश्च सर्वपदेषु सभावनिको उद्देशकः१ सूत्रम् 8 वाच्यः 9 // तदेवमेतान्नव प्रश्नान्गौतमेन भगवता भगवान्महावीरः पृष्टः सन्नुवाच-हंते त्यादि, अथ कस्माद्भगवन्तं गौतम चलदाधे कार्थादिपृच्छति?, विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह च संखाई | उ भवे साहइ जं वा परो उ पुच्छेज्जा। ण य णं अणाइसेसी वियाणई एस छउमत्थो॥१॥त्ति, नैवम्, उक्तगुणत्वेऽपि छद्मस्थतयानाभोगसम्भवात्, यदाह न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति। यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म // 1 // इति, अथवा जानत एव तस्य प्रश्नःसंभवति,स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थं शिष्याणांवा स्ववचसि प्रत्ययोत्पादनार्थ सूत्ररचनाकल्पसंपादनार्थं वेति / तत्र हंता गोयमे ति, हन्तेति कोमलामन्त्रणार्थः, दीर्घत्वं च मागधदेशीप्रभवमुभयत्रापि, चलमाण इत्यादेः प्रत्युच्चारणं तु चलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम् / वृद्धाः पुनराहुः हंता गोयमे त्यत्र हन्ते ति, एवमेतदित्यभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थं चलमाण इत्यादि प्रत्युच्चारितमिति, इह च यावत्करणलभ्यानि पदानि / सुप्रतीतान्येव // 7 // एवमेतानि नव पदानि कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि. च, अर्थतान्येव चलनादीनि परस्परतः किं तुल्यार्थानि भिन्नार्थानि वेति पृच्छां निर्णयञ्च दर्शयितुमाहएएणं भंते! नव पया किं एगट्ठाणाणाघोसा नाणावंजणा उदाहु नाणट्ठा नाणाघोसा नाणावंजणा?, गोयमा! चलमाणे चलिए // 29 // 1 उदीरिजमाणे उदीरिए 2 वेइज्जमाणे वेइए 3 पहिज्जमाणे पहीणे४ ते एए णं चत्तारि पया एगट्ठा नाणाघोसा नाणावंजणा ®सङ्ख्यातीतानपि भवान् कथयति यद्वा परः (तु) पृच्छेत् / न चावध्यादिरहितो (चानतिशेषी वि) जानात्येष छदग्रस्थ इति (गणधरः) // 2 // (आ०नि० गणधरप्रकरण)