________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 28 // तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म चलितं 1 शतके भवतीति 1 / तथा उदीरिज्जमाणे उदीरिए त्ति, उदीरणा नाम, अनुदयप्राप्तं चिरेणाऽऽगामिना कालेन यद्वेदयितव्यं कर्मदलिक उद्देशकः१ सूत्रम् 7 तस्य विशिष्टाध्यवसायलक्षणेन करणेनाऽऽकृष्योदये प्रक्षेपणं सा चासङ्खयेयसमयवर्तिनी, तया च पुनरुदीरणयोदीरणा- चलचलितप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवतीति तथावेइज्जमाणे वेइएत्ति, वेदनं कर्मणो भोगः, अनुभव मित्यादि गौतमस्वामि इत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वो(चो)दयमुपनीतस्य भवति, तस्य च वेदनाकालस्या- नवप्रश्ना सङ्ख्येयसमयत्वादाद्यसमये वेद्यमानमेव वेदितं भवतीति 3 / तथा पहिज्जमाणे पहीणे त्ति, प्रहाणं तु जीवप्रदेशैः सह संश्लिष्टस्य भगवदुत्तराणि कर्मणस्तेभ्यः पतनम्, एतदप्यसङ्खयेयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्यादिति 4 / तथा छिज्जमाणे छिन्ने त्ति, छेदनं तु कर्मणो दीर्घकालानां स्थितीनांह्रस्वताकरणम्, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसङ्खयेयसमयमेव, तस्य त्वादिसमये स्थितितस्तच्छिद्यमानं कर्म छिन्नमिति 5 / तथा भिज्जमाणे / भिन्ने त्ति, भेदस्तु कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्त्तनाकरणेन मन्दताकरणम्, मन्दस्य चोद्वर्त्तनाकरणेन तीव्रताकरणम्, सोऽपि चासङ्खयेयसमय एव, ततश्च तदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति 6 / तथा डज्झमाणे दडे त्ति, दाहस्तु कर्मदलिकदारूणांध्यानाग्निना तद्रूपापनयनमकर्मत्वजननमित्यर्थः, यथा हि काष्ठस्याग्निना दग्धस्य काष्ठरूपापनयनं भस्मात्मना च भवनं दाहस्तथा कर्मणोऽपीति, तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेनासङ्ख्येयसमयस्यादिसमये दह्यमानं कर्म दग्धमिति 7 / तथा मिज्जमाणे मडे त्ति, म्रियमाणमायुःकर्म मृतमिति व्यपदिश्यते, मरणं ह्यायुःपुद्गलानां क्षयः, तच्चासङ्खयेयसमयवर्ति भवति, तस्य च जन्मनः प्रथमसमयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्नियमाणं मृतमिति 8 / तथा निजरिज्जमाणे /