________________ 1 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 25 // चा त्पन्नश्रद्धत्वादय ईहापायधारणाभेदेन वाच्याः, अन्ये त्वाहुः,जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवं पुनरुक्तं दोषाय, यदाह वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा छ उद्देशकः 1 सूत्रम् निन्दन् / यत्पदमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥१॥इति / उठाए उट्टेइ त्ति, उत्थानमुत्था,ऊर्दू वर्त्तनं तयोत्थया, उत्तिष्ठति, ऊो / चलचलित मित्यादि भवति, उढेई त्युक्ते क्रियारम्भमात्रमपि प्रतीयते यथा वक्तुमुत्तिष्ठत इति ततस्तद्व्यवच्छेदायोक्तमुत्थयेति, उट्ठाए उद्वित्त त्ति, गौतमस्वामि उपागच्छतीत्युत्तरक्रियाऽपेक्षयोत्थानक्रियायाः पूर्वकालताऽभिधानायोत्थयोत्थायेति क्त्वाप्रत्ययेन निर्दिशतीति ।जेणेवेत्यादि, नवप्रश्ना इह प्राकृतप्रयोगादव्ययत्वाद्वा येनेति यस्मिन्नेव दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते तेणेव त्ति तस्मिन्नेव दिग्भाग भगवदुत्तराणि उपागच्छति, तत्कालापेक्षया वर्तमानत्वादागमनक्रियाया वर्तमानविभक्त्या निर्देशः कृतः, उपागतवानित्यर्थः, उपागम्य च श्रमणं 3 कर्मताऽऽपन्नम्, तिक्खुत्तो त्ति त्रीन्वारान्त्रिकृत्वः, आयाहिणपयाहिणं करेइ त्ति, आदक्षिणाद्, दक्षिणहस्तादारभ्य प्रदक्षिणः परितो भ्राम्यतो दक्षिण एवाऽऽदक्षिणप्रदक्षिणोऽतस्तं करोतीति, वंदइ त्ति वन्दते वाचा स्तौति, नमसइ त्ति नमस्यति कायेन प्रणमति, नच्चासन्ने त्ति न नैव, अत्यासन्नः, अतिनिकटोऽवग्रहपरिहारात्, नात्यासन्ने वा स्थाने, वर्तमान इति गम्यम्, णाइदूरे त्तिन नैव, अतिदूरः, अतिविप्रकृष्टः, अनौचित्यपरिहारान्नातिदूरेवास्थाने, सुस्सूसमाणे त्ति भगवद्वचनानि श्रोतुमिच्छन्, अभिमुहे त्ति, अभि भगवन्तं लक्ष्यीकृत्य मुखमस्येत्यभिमुखः, तथा विणएणं ति विनयेन हेतुना, पंजलिउडे त्ति प्रकृष्टः प्रधानो ललाटतटघटितत्वेन, अञ्जलिहस्तन्यासविशेषः कृतोविहितो येन सोऽग्न्याहितादिदर्शनात्प्राञ्जलिकृतः, पज्जुवासमाणेत्ति पर्युपासीनः सेवमानः, अनेन च विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, आह च णिद्दीविगहापरिवजिएहि गुत्तेहि पंजलिउडेहिं। ७परिवर्जितनिद्राविकथैर्गुप्तैः कृतप्राञ्जलिभिरुपयुक्तैर्भक्तिबहुमानपूर्वं श्रोतव्यम् // 1 / / // 25