SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 24 // वधारणार्थमाह भगवं गोयमे त्ति, किमित्याह जायसड्ड इत्यादि, जातश्रद्धादिविशेषणः सन्नुत्तिष्ठतीति योगः, तत्र जाता प्रवृत्ता श्रद्धा, इच्छा वक्ष्यमाणार्थतत्त्वज्ञानं प्रति यस्यासौ जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयस्त्वनवधारितार्थं उद्देशकः१ सूत्रम् ज्ञानम्, स चैवं तस्य भगवतो जातः, भगवता हि महावीरेण चलमाणे चलिए इत्यादौ सूत्रे चलन्नर्थश्चलितो निर्दिष्टः, तत्र च य चलचलितएव चलन्सएव चलित इत्युक्तः, ततश्चैकार्थविषयावेतौ निर्देशौ, चलन्निति च वर्तमानकालविषयः चलित इति चातीतकाल मित्यादि गौतमस्वामि विषयः, अतोऽत्र संशयः, कथं नाम य एवार्थो वर्तमानः स एवातीतो भवति?, विरुद्धत्वादनयोः कालयोरिति, तथा, जाय- नवप्रश्ना भगवदुत्तराणि कोउहल्ले त्ति जातं कुतूहलं यस्य स जातकुतूहलोजातौत्सुक्य इत्यर्थः, कथमेतान्पदार्थान्भगवान्प्रज्ञापयिष्यतीति, तथा उप्पन्नसड्ढे त्ति, उत्पन्ना प्रागभूता सती भूता श्रद्धा यस्य स उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते?, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य लब्धत्वात्, न ह्यनुत्पन्ना श्रद्धा प्रवर्त्तत इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थम्, तथाहि, कथंड प्रवृत्तश्रद्ध उच्यते?, यत उत्पन्नश्रद्ध इति हेतुत्वप्रदर्शनं चोचितमेव, वाक्यालङ्कारत्वात्तस्य, यथाहुः, प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम्, इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाऽप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेहेतुतयोपन्यस्तमिति, उप्पन्नसंसए उप्पन्नकोउहल्ले त्ति प्राग्वत्, तथा संजायसङ्घ इत्यादि पदषट्कं प्राग्वत्, नवरमिह संशब्दः प्रकर्षादिवचनो यथा संजातकामो बलभिद्विभूत्यां, मानात् प्रजाभिः प्रतिमाननाच्च / (संजातकामः) ऐन्द्रैश्वर्ये प्रकर्षेण जातेच्छः कार्तवीर्य इति / अन्ये तु जायसङ्घ इत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति, जाता श्रद्धा यस्य प्रष्टुं स जातश्रद्धः, किमिति जातश्रद्धः? इत्यत आह, यस्माजातसंशयः, इदं वस्त्वेवं स्यादेवं वेति, अथ जातसंशयोऽपि कथमित्यत आह, यस्माजातकुतूहलः कथं नामास्यार्थमवभोत्स्ये? इत्यभिप्रायवानिति, एतच्च विशेषणत्रयमवग्रहापेक्षया द्रष्टव्यम्, एवमुत्पन्नसंजातसमु
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy