________________ उद्देशकः१ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ / / 23 // च। दूरं च विप्रकृष्टं सामन्तं च संनिकृष्टं तन्निषेधाददूरसामन्तं तत्र, नातिदूरे नातिनिकट इत्यर्थः, किंविधः संस्तत्र विहरतीत्याह 1 शतके उड्डजाणु त्ति, ऊर्दू जानुनी यस्यासावूर्द्धजानुः शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासन इत्यर्थः, सूत्रम् अहोसिरे त्ति, अधोमुखो नोर्बु तिर्यग्वा विक्षिप्तदृष्टिः, किन्तु नियतभूभागनियमितदृष्टिरिति भावः, झाणकोट्ठोवगए त्ति, चलचलित मित्यादि ध्यानं धन॑ शुक्लं वा तदेव कोष्ठः- कुशूलो ध्यानकोष्ठस्तमुपगतस्तत्र प्रविष्टो ध्यानकोष्ठोपगतः, यथा हि कोष्ठके धान्यं / गौतमस्वामि प्रक्षिप्तमविप्रसृतं भवति एवं स भगवान् ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरिति, संजमेणं ति संवरेण, तवस त्ति, नवप्रश्ना भगवदुत्तराणि अनशनादिना, चशब्दः समुच्चयार्थो लुप्तोऽत्र द्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थम्, प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात्पुराणकर्मक्षपणाच्च सकलकर्मक्षयलक्षणो मोक्ष इति, अप्पाणं भावेमाणे विहरइ त्ति, आत्मानं वासयंस्तिष्ठतीत्यर्थः॥६॥ तए णं से भगवं गोयमे जायसढे जायसंसए जायकोउहल्ले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले संजायसढे संजायसंसए संजायकोउहल्ले समुप्पन्नसट्टे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उट्ठाए उट्टेइ, उट्ठाए उठूत्ता जेणेव समणेभगवं महावीरेतेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वंदइ नमसइ 2 त्ता णच्चासन्ने णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पजुवासमाणे एवं वयासी-सेनूणं भंते! चलमाणे चलिए 1, उदीरिजमाणे उदीरिए 2, वेइज्जमाणे वेइए 3, पहिज्जमाणे पहीणे 4, छिज्जमाणे छिन्ने 5, भिज्जमाणे भिन्ने 6, दह (डज्झ) माणे दहे 7, मिज्जमाणे मए 8, निजरिज्जमाणे निजिन्ने 9?, हंता गोयमा! चलमाणे चलिए जाव णिजरिजमाणे णिजिण्णे // सूत्रम्॥ ततः ध्यानकोष्ठोपगतविहरणानन्तरंणमिति वाक्यालङ्कारार्थः,स इति प्रस्तुतपरामर्शार्थः, तस्य तु सामान्योक्तस्य विशेषा // 23 //