SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 22 // ज्वलितं तपो धर्मध्यानादि यस्य स तथा, तत्ततवे त्ति, तप्तं तपो येनासौ तप्ततपाः, एवं हि तेन तत्तपस्तप्तं येन कर्माणि संताप्य 1 शतके तेन तपसास्वात्माऽपि तपोरूपःसंतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति, महातवेत्ति, आशंसादोषरहितत्वात्प्रशस्ततपाः, उद्देशक:१ सूत्रम् 6 ओराले त्ति भीम उग्रादिविशेषणविशिष्टतपःकरणात्पार्श्वस्थानामल्पसत्त्वानां भयानक इत्यर्थः, अन्ये त्वाहुः, ओराले त्ति, श्री उदारः प्रधानः, घोरे त्ति घोरोऽतिऽनिघृणः, परीषहेन्द्रियादिरिपुगणविनाशमाश्रित्य निर्दय इत्यर्थः, अन्ये त्वात्मनिरपेक्ष गौतमस्वामि वर्णनम्। घोरमाहुः, घोरगुणे त्ति, घोरा अन्यैर्दुरनुचरा गुणा मूलगुणादयो यस्य स तथा, घोरतवस्सित्ति, घोरस्तपोभिस्तपस्वीत्यर्थः, घोरबंभचेरवासि त्ति, घोरं दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद्ब्रह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, उच्छूढसरीरे त्ति, उच्छूढमुज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात्स तथा, संखित्तविउलतेयलेसे त्ति, संक्षिप्ता शरीरान्तीनत्वेन ह्रस्वतां गता, विपुला विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्, तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा / तेजोज्वाला यस्य स तथा, मूलटीकाकृता तु उच्छूढसरीरसंखित्तविउलतेयलेस त्ति कर्मधारयं कृत्वा व्याख्यातमिति, चउदसपुवि त्ति चतुर्दश पूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वादसौ चतुर्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह चउणाणोवगए त्ति, केवलज्ञानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषणद्वययुक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट्स्थानकपतितत्वेन श्रवणादित्यत आह सव्वक्खरसन्निवाइ त्ति, सर्वेचल तेऽक्षरसन्निपाताश्चतत्संयोगाः सर्वेषां वाऽक्षराणां सन्निपाताः सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयतया सन्ति ससर्वाक्षरसन्निपाती, श्रव्याणि वा- श्रवणसुखकारीण्यक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति श्रव्याक्षरसंनिवादी, स चैवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च समणस्स भगवओ महावीरस्स अदूरसामंते विहरती ति योगः, तत्र // 22 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy