SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-१ // 21 // सूत्रम् धिकाः चतस्रोऽप्यनयो यत्र तत्समचतुरस्रम्, अम्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरम्, आसनस्य ललाटोपरिभागस्य 1 शतके चान्तरं दक्षिणस्कन्धस्य वामजानुनश्चान्तरं वामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति, अन्ये त्वाहुः, विस्तारोत्सेधयोः उद्देशकः१ समत्वात्समचतुरस्रम्, तच्चतत्संस्थानंचाकारः समचतुरस्रसंस्थानं तेन संस्थितो व्यवस्थितो यःस तथा, अयंच हीनसंहननोऽपि स्यादित्यत आह वज्जरिसहनारायसंघयणे त्ति, इह संहननमस्थिसञ्चयविशेषः, इह वज्रादीनां लक्षणमिदम् रिसहो य होई पट्टो वजं गौतमस्वामि वर्णनम्। पुण कीलियं वियाणाहि। उभओ मक्कडबंधो नारायं तं वियाणाहि॥१॥त्ति, तत्र वज्रं च तत् कीलिकाकीलितकाष्ठसंपुटोपम-3 सामर्थ्ययुक्तत्वात्, ऋषभश्चलोहादिमयपट्टबद्धकाष्ठसंपुटोपमसामर्थ्यान्वितत्वाद्वज्रर्षभः, सचासौनाराचंचोभयतोमर्कटबन्धनिबद्धकाष्ठसंपुटोपमसामोपेतत्वाद्वज्रर्षभनाराचम्, (तच्च) तत्संहननमस्थिसञ्चयविशेषोऽनुपमसामर्थ्ययोगाद्यस्यासौवज्रर्षभनाराचसंहननः, अन्ये तु कीलिकादिमत्त्वमस्थ्नामेव वर्णयन्ति, अयं च निन्द्यवर्णोऽपि स्यादित्यत आह कणयपुलयनिहसपम्हगोरे कनकस्य सुवर्णस्य पुलगंति यः पुलकोलवस्तस्य यो निकष:-कषपट्टकेरेखालक्षणः, तथा पम्ह त्ति पद्मपक्ष्माणि केशराणि तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेर्यः पुलकः सारो वर्णातिशयस्तत्प्रधानो यो निकषो रेखा तस्य यत्पक्ष्म बहलत्वं तद्वद्गौरो यः स तथा, अथवा कनकस्य यः पुलको द्रुतत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशो यः स तथा, पम्ह त्ति पद्मम्, तस्य चेह प्रस्तावात्केशराणि गृह्यन्ते, ततः पद्मवद्गौरो यः स तथा, ततः पदद्वयस्य कर्मधारयः, अयं च विशिष्टचरणरहितोऽपि स्यादित्यत आह उग्गतवेत्ति, उग्रमप्रधृष्यं तपोऽनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृतपुंसान // 21 // शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः, दित्ततवे त्ति, दीप्तं जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया 0ऋषभो भवति पट्टो वजं पुनः कीलिकां विजानीहि। उभयतो मर्कटबन्धस्तं नाराचं विजानीहि // 1 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy