________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 20 // १शतके उद्देशकः१ सूत्रम् 6 गौतमस्वामिवर्णनम्। अंतिए धम्म सोच्चा निसम्म हट्टतुट्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करेत्ता वंदइ नमसइ 2 एवं वयासीसुयक्खाए णं भंते! निग्गंथे पावयणे, णत्थि णं अन्ने केइ समणे वा माहणे वा एरिसं धम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसिं पाउब्भूया तामेव दिशं पडिगय त्ति // 5 // तेणंकालेणं तेणंसमएणंसमणस्स भगवओमहावीरस्सजेटे अंतेवासी इंदभूती नामं अणगारेगोयमसगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे कणगपुलगणिघसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेयलेसे चोद्दसपुव्वीचउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उडेजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥सूत्रम् 6 // तेन कालेन तेन समयेन श्रमणस्य भगवतो महावीरस्य जेट्टे त्ति प्रथमः, अंतेवासि त्ति शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घनायकत्वमाह, इंदभूइ त्ति, इन्द्रभूतिरिति मातापितृकृतनामधेयः, नामं ति विभक्तिपरिणामान्नाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह अणगारे त्ति, नास्यागारं विद्यत इत्यनगारः, अयं चावगीतगोत्रोऽपि स्यादित्यत आह गोयमसगोत्तेणं ति गौतमसगोत्र इत्यर्थः, अयं च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादित्यत आह सत्तुस्सेहे त्ति सप्तहस्तोच्छ्रयः, अयं च लक्षणहीनोऽपिस्यादित्यत आह समचउरंससंठाणसंठिए त्ति, समं नाभेरुपर्यधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यम्, तच्च तच्चतुरस्रं च प्रधानं समचतुरस्रम्, अथवा समाः शरीरलक्षणोक्तप्रमाणाविसंवादिन्यश्वतम्रोऽस्रयो यस्य तत्समचतुरस्रम्, अम्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा इति, अन्ये त्वाहुः,समा अन्यूना 0 औप० सू०-३५-३६-३७। // 20 //