________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 26 // नवप्रश्ना भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ॥१॥ति / एवं वयासि त्ति, एवं वक्ष्यमाणप्रकारं वस्त्ववादीदुक्तवान्, से इति तद्यदुक्तं 1 शतके पूज्यैश्चलचलित मित्यादि णूणं ति, एवमर्थे, तत्र तत्रास्यैवं व्याख्यातत्वात्, अथवा से इतिशब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे उद्देशकः१ सूत्रम् वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः परिप्रश्नार्थो वा, यदाह अथ प्रक्रिया-प्रश्ना-ऽऽनन्तर्य-मङ्गलोपन्यास-प्रतिवचनसमुच्चयेषु चलचलितनून मिति निश्चितम्, भंते त्ति गुरोरामन्त्रणम्, ततश्च हे भदन्त! कल्याणरूप! सुखरूपे! ति वा, भदि कल्याणे सुखे चे ति मित्यादि गौतमस्वामि वचनात्, प्राकृतशैल्या वा भवस्य संसारस्य भयस्य वा भीतेरन्तहेतुत्वाद्भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त! हे भयान्त! वा, भान्वा ज्ञानादिभिर्दीप्यमान!, भा दीप्ता विति वचनात्, भ्राजमान! वा दीप्यमान! भ्राज दीप्ता विति वचनात् // भगवदुत्तराणि अयं चादित आरभ्य भंते त्ति पर्यन्तो ग्रन्थो भगवता सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतस्य प्रथमोद्देशकस्य सम्बन्धार्थमभिहितः। अथानेन सम्बन्धेनायातस्य पञ्चमाङ्गप्रथमशतप्रथमोद्देशकस्येदमादिसूत्रम् चलमाणे चलिए इत्यादि, अथ केनाभिप्रायेण भगवता सुधर्मस्वामिना पञ्चमाङ्गस्य प्रथमशतप्रथमोद्देशकस्यार्थानुकथनं कुर्वतैवमर्थवाचकं सूत्रमुपन्यस्तं नान्यानीति? अत्रोच्यते, इह चतुर्षु पुरुषार्थेषु मोक्षाख्यः पुरुषार्थो मुख्यः, सर्वातिशायित्वात्, तस्य च मोक्षस्य साध्यस्य साधनानां च सम्यग्दर्शनादीनां साधनत्वेनाव्यभिचारिणामुभयनियमस्य शासनाच्छास्त्रं सद्भिरिष्यते, उभयनियमस्त्वेवंसम्यग्दर्शनादीनि मोक्षस्यैव साध्यस्य साधनानि नान्यस्यार्थस्य, मोक्षश्च तेषामेव साधनानां साध्यो नान्येषामिति, स चल मोक्षो विपक्षक्षयात्तद्विपक्षश्च बन्धः, स च मुख्यः कर्मभिरात्मनः सम्बन्धः, तेषां तु कर्मणां प्रक्षयेऽयमनुक्रम उक्तः, चलमाण इत्यादि तत्र चलमाणे त्ति चलत्स्थितिक्षयादुदयमागच्छद् विपाकाभिमुखीभवद्यत्कर्मेति प्रकरणगम्यं तच्चलितमुदितमिति व्यपदिश्यते,चलनकालो ह्युदयावलिका, तस्य च कालस्यासङ्खयेयसमयत्वाद्, आदिमध्यान्तयोगित्वम्, कर्मपुद्गलानामप्य // 26 //