________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 487 // आत्मनोऽधिकरणान्यात्माधिकरणानि तान्येव प्रत्ययः कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः // 262 // श्रमणोपासकाधिकारादेव समणोवासगे त्यादिप्रकरणम्, तत्र च तसपाणसमारंभे त्ति त्रसवधः, नोखलु से तस्स अतिवायाए आउट्टइ त्ति न खल्वसौ तस्य त्रसप्राणस्यातिपाताय वधायाऽऽवर्तते प्रवर्तत इति न सङ्कल्पवधोऽसौ, सङ्कल्पवधादेव च निवृत्तोऽसौ, न चैष तस्य संपन्न इति नासावतिचरति व्रतम् / / 263 / / 9 किं चयइ? त्ति किं ददातीत्यर्थः, जीवियं चयइ त्ति जीवितमिव ददाति, अन्नादि द्रव्यं यच्छन् जीवितस्यैव त्यागं करोतीत्यर्थः, जीवितस्येवान्नादिद्रव्यस्य दुस्त्यजत्वात्, एतदेवाह दुच्चयं चयइत्तिदुस्त्यजमेतत्, त्यागस्य दुष्करत्वात्, एतदेवाह, दुष्करं करोतीति, अथवा किं त्यजति किं विरहयति?, उच्यते, जीवितमिव जीवितं कर्मणो दीर्घा स्थितिं दुच्चयं ति दुष्ट कर्मद्रव्यसञ्चयं दुक्करं ति दुष्करमपूर्वकरणतो ग्रन्थिभेदम्, ततश्च दुल्लंभ लभइ त्ति, अनिवृत्तिकरणं लभते, ततश्च बोहिं बुज्झइ त्ति बोधिं सम्यग्दर्शनं बुध्यतेऽनुभवति, इह च श्रमणोपासकः साधूपासनामात्रकारी ग्राह्यः, तदपेक्षयैवास्य सूत्रार्थस्य घटमानत्वात्, तओ पच्छ त्ति तदनन्तरं सिद्ध्यतीत्यादि प्राग्वत्, अन्यत्राप्युक्तं दानविशेषस्य बोधिगुणत्वम्, यदाह अणुकंपऽकामणिज्जरबालतवे दाणविणएत्यादि, तद्यथा केई ते णेव भवेण निव्वुया सव्वकम्मओ मुक्का / केई तइयभवेणं सिज्झिस्संति जिणसगासे॥ 1 // त्ति // 264 // अनन्तरमकर्मत्वमुक्तमतोऽकर्मसूत्रम् 10 अत्थिणंभंते! अकम्मस्स गती पन्नायति?, हंता अत्थि // 11 कहन्नं (कहणं कहणं) भंते! अक० गती पन्नायति?, गोयमा! (c) अनुकम्पाऽकामनिर्जराबालतपोदानविनय (विभङ्गः)। केचित्तेनैव भवेन सर्वकर्मतो मुक्ता निर्वृताः केचित्तृतीयभवेन जिनसकाशे सेत्स्यन्ति // 1 // ७शतके उद्देशकः१ आहारकानाहारकवक्तव्यताऽऽधिकारः। सूत्रम् 265 अकर्मजीवगति प्रश्नाः / तत्कारणनिःसंगतादि तस्य तुंबकलर्सिबलीधूमधनुष्यादि दृष्टान्ताः / // 487