SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ उद्देशक:८ पृथिव्य // 472 // जातिनाम प्रश्नाः / यस्यां जीवः साऽवगाहना, शरीरमौदारिकादि तस्या नाम, औदारिकादिशरीरनामकर्मेत्यवगाहनानाम, अवगाहनारूपोल ६शतके वा नाम परिणामोऽवगाहनानाम तेन सह यन्निधत्तमायुस्तदवगाहनानामनिधत्ताऽऽयुः 4, पएसनामनिहत्ताउए त्ति प्रदेशानामायुःकर्मद्रव्याणां नाम तथाविधा परिणतिः प्रदेशनाम प्रदेशरूपं वा नाम कर्मविशेष इत्यर्थः प्रदेशनाम, तेन सह निधत्तमायु- धिकारः। स्तत्प्रदेशनामनिधत्ताऽऽयुरिति 5, अणुभागनामनिधत्ताउए त्ति, अनुभाग आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नाम सूत्रम् 250 जीवानां परिणामोऽनुभागनाम, अनुभागरूपं वा नामकर्म अनुभागनाम, तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्ताऽऽयुरिति / षड्विायुर्बन्ध अथ किमर्थं जात्यादिनामकर्मणाऽऽयुर्विशेष्यते?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थं यस्मानारकाद्यायुरुदये सति निधत्तादि जात्यादिनामकर्मणामुदयो भवति नारकादिभवोपग्राहकंचाऽऽयुरेव, यस्मादुक्तमिहैव नेरइएणं भंते! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ?, गोयमा! नेरइए नेरइएसु उववज्जइ नो अनेरइए नेरइएसु उववज्जइ त्ति, एतदुक्तं भवति, नारकाऽऽयुः प्रथम समयसंवेदन एव नारका उच्यन्ते तत्सहचारिणांच पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चाऽऽयुर्बन्धस्य षड्विधत्व उपक्षिप्ते यदायुषः षडिधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्धस्यैव चाऽऽयुर्व्यपदेशविषयत्वादिति / 16 दंडओ त्ति नेरइयाणं भंते! कतिविहे आउयबंधे पन्नत्ते? इत्यादिवैमानिकान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह जाव वेमाणियाणं ति॥१७ अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह जीवा णं भंते! इत्यादि, जातिनाम निहत्त त्ति जातिनाम निधत्तं निषिक्तं विशिष्टबन्धंवा कृतं यैस्ते जातिनामनिधत्ताः 1 एवं गतिनामनिधत्ताः 2, यावत्करणात् ठितिनाम निहत्ता 3 ओगाहणानामनिहत्ता 4 पएसनामनिहत्ता 5 अणुभागनामनिहत्ते 6 ति दृश्यम्, व्याख्या तथैव, नवरंजात्यादिनाम्नांया स्थितिर्येच प्रदेशा यश्चानुभागस्तस्थित्यादिनामावगाहनानाम शरीरनामेति, अयमेको दण्डको वैमानिकान्तः१, तथा जातिनामनिहत्ताउ त्ति जातिनाम्ना सह // 472 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy