________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-१ // 443 // मित्यादि, संयतेषु संयतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयमप्रतिपन्नानांबहूनां प्रतिपद्यमानानांचैकादीनां भावात्, 6 शतके इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके असंजएही त्यादि, इहासंयतत्वं उद्देशकः४ सप्रदेशाप्रतिपन्नानां बहूनां संयतत्वादिप्रतिपातेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयम्, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्या धिकारः। सप्रदेशाश्चाप्रदेशाश्चैक एव भङ्ग इति, इह सिद्धपदं नाध्येयमसम्भवादिति / संयतासंयतबहुत्वदण्डके संजयासंजएहिमित्यादि, सूत्रम् 239 जीवनैरयिइह देशविरतिं प्रतिपन्नानां बहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयसम्भवः, इह कादीनां जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदान्येवाध्येयानि, तदन्यत्र संयतासंयतत्वस्याभावादिति।७ नोसंजए त्यादौ सैव भावना, नवरमिह कालादेशेन सप्रदेशत्वादि जीवसिद्धपदे एव वाच्ये अत एवोक्तं जीवसिद्धेहिं तियभंगो त्ति।®सकसाईहिं जीवाइओ तयभंगो त्ति, अयमर्थः, सकषायाणां प्रश्नाः / सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते / आहारकादि चतुर्दशद्वारेषु ततश्च सप्रदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्चेत्यपरभङ्गकद्वयमिति, नारकादिषु तु प्रतीतमेव भङ्गकत्रयम्, एगिदिएसु त्रिषडादि अभंगयं ति, अभङ्गभङ्गकानामभावोऽभङ्गकं सप्रदेशाश्चाप्रदेशाश्चेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदंनाध्येयमकषायित्वात्, ®एवं क्रोधादिदण्डकेष्वपि, कोहकसाईहिं जीवेगिंदियवज्जो तियभंगो त्ति, अयमर्थः, क्रोधकषायिद्वितीयदण्डके जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः शेषेषु / त्रयः, ननु सकषायिजीवपदवत्कथमिह भङ्गत्रयं न लभ्यते?, उच्यते, इह मानमायालोभेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते, प्रत्येकं तद्राशीनामनन्तत्वात्, न त्वेकादयो यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तार इति / देवेहिं छब्भंग त्ति देवपदेषु त्रयोदशस्वपि षड् भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः भङ्गाः। // 443