SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 442 // ज्योतिष्कवैमानिकानां न भवन्ति सिद्धानां तु सर्वा न भवन्तीति (r) तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः पृथिव्यब्वनस्पतिषु पुनः षड्भङ्गाः, यत एतेषु तेजोलेश्या एकादयो देवाः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानांचैकत्वबहुत्वसम्भव इति, एतदेवाह तेउलेसाए इत्यादि, इह नारक तेजोवायुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति, ®पद्मलेश्याशुक्ललेश्ययोर्द्वितीयदण्डके जीवादिषु पदेषु त एव त्रयो भङ्गकास्तदेवाह पम्हलेसे त्यादि, इह च पञ्चेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्यसिद्धपदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्यासम्भवात्, तत्र च जीवसिद्धयोर्भङ्गकत्रयं तदेव, मनुष्येषु तु षड्भङ्गाः, अलेश्यतां प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह, अलेसीहिमित्यादि। सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शन प्रतिपत्तिप्रथमसमयेऽप्रदेशत्वं द्वितीयादिषु तु सप्रदेशत्वम्, तत्र द्वितीयदण्डके जीवादिपदेषु त्रयो भङ्गाः, तथैव विकलेन्द्रियेषु तु षड्यतस्तेषुसासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्तेऽतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भव इति, एतदेवाह सम्मदिट्ठीही त्यादि, इहैकेन्द्रियपदानि न वाच्यानि, तेषु सम्यग्दर्शनाभावादिति, ®मिच्छद्दिट्ठीहिमित्यादि, मिथ्यादृष्टिद्वितीयदण्डके जीवादिपदेषु तु त्रयो भङ्गाः, मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्प्रतिपद्यमानाश्चैकादयः सम्भवन्तीतिकृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्चाप्रदेशाश्वेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्यादृष्टिबहुत्वदण्डके सम्मामिच्छद्दिट्टीहिं छब्भंगा, अयमर्थः, सम्यग्मिथ्यादृष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोपिलभ्यन्त इत्यतस्तेषु षड्भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि नवाच्यान्यसम्भवादिति। संजएहि 6 शतके उद्देशकः४ सप्रदेशाधिकारः। सूत्रम् 239 जीवनैरयिकादीनां कालादेशेन सप्रदेशत्वादि प्रश्नाः / आहारकादि चतुर्दशद्वारेषु | त्रिषडादि // 442 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy