________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-१ // 17 // वास्याऽऽवेदयन्नाह वियट्टछउमे त्ति व्यावृत्तं निवृत्तमपगतं छद्म- शठत्वमावरणं वा यस्यासौ व्यावृत्तछद्मा, छद्माभावश्चास्य १शतके रागादिजयाज्जात इत्यत आह जिणे त्ति, जयति निराकरोति रागद्वेषादिरूपानरातीनिति जिनः, रागादिजयश्चास्य रागादिस्वरूप-8 उद्देशकः१ सूत्रम् 5 तज्जयोपाय ज्ञानपूर्वक एव भवतीत्येतदस्याह जाणए त्ति, जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकः, ज्ञायक इत्यनेनास्य श्रमणभगस्वार्थसंपत्त्युपाय उक्तः, अधुना तु स्वार्थसंपत्तिपूर्वकं परार्थसंपादकत्वं विशेषणचतुष्टयेनाह बुद्धे त्ति, बुद्धो जीवादितत्त्वं वन्महावीरस्य तीर्थकराऽऽबुद्धवान्, तथा बोहए त्ति जीवादितत्त्वस्य परेषां बोधयिता, तथा मुत्ते त्ति मुक्तो बाह्याभ्यन्तरग्रन्थिबन्धनेन मुक्तत्वात्, तथा दिपदानां मोयए त्ति परेषां कर्मबन्धनान्मोचयिता। अथ मुक्तावस्थामाश्रित्य विशेषणान्याह सव्वन्नूसव्वदरिसी ति, सर्वस्य वस्तुस्तोमस्य / | विवेचनम्। विशेषरूपतया ज्ञायकत्वेन सर्वज्ञः, सामान्यरूपतया पुनः सर्वदर्शी, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषवद्भविष्यजडत्वम्, एतच्च पदद्वयं क्वचिन्न दृश्यत इति, तथा सिवमयल मित्यादि, तत्र शिवं सर्वाऽऽबाधारहितत्वाद्, अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावाद्, अरुजम विद्यमानरोगं तन्निबन्धनशरीरमनसोरभावात्, अनन्तम नन्तार्थविषयज्ञानस्वरूपत्वात्, अक्षयम नाशंसाद्यपर्यवसितस्थितिकत्वादक्षतं वा परिपूर्णत्वात्पौर्णमासीचन्द्रमण्डलवत्, अव्याबाधं परेषामपीडाकारित्वात् (अपुणरावत्तियं ति कर्मबीजाभावाद्भवावताररहितं) सिद्धिगइनामधेयं ति सिध्यन्ति निष्ठितार्था भवन्ति यस्यां सा सिद्धिः सा चासौ गम्यमानत्वाद्गतिश्च सिद्धिगतिस्तदेव नामधेयं प्रशस्तं नाम यस्य तत्तथा, ठाणं ति तिष्ठत्यनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो भवति यत्र तत्स्थानम्, क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रंवा, जीवस्वरूपविशेषणानितु लोकाग्रस्या // 17 // sऽधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं संपाविउकामे त्ति यातुमनाः, न तु तत्प्राप्तः, तत्प्राप्तस्याकरणत्वेन