________________ उद्देशकः१ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ | श्रमणभग // 16 // मार्गदर्शनं च कृत्वा चौरादिविलुप्तानिरुपद्रवं स्थान प्रापयन्परमोपकारी भवतीत्येवमयमपीति दर्शयन्नाह सरणदए त्ति शरणं १शतके त्राणं नानाविधोपद्रवोपद्रुतानां तद्रक्षास्थानम्, तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयः, शरणदायकत्वं चास्य। सूत्रम् 5 धर्मदेशनयैवेत्यत आह धम्मदेसए त्ति, धर्मं श्रुतचारित्रात्मकं देशयतीति धर्मदेशकः,धम्मदये त्ति पाठान्तरं, तत्र च धर्म वन्महावीरस्य चारित्ररूपं दयत इति धर्मादयः, धर्मदेशनामात्रेणापि धर्मदेशक उच्यत इत्यत आह धम्मसारहि त्ति धर्मरथस्य प्रवर्तकत्वेन तीर्थंकराऽऽसारथिरिव धर्मसारथिः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षत्येवं भगवांश्चारित्रधर्माङ्गानां संयमात्मप्रवचनाख्यानां दिपदानां विवेचनम्। रक्षणोपदेशाद्धर्मसारथिर्भवतीति, तीर्थान्तरीयमतेनान्येऽपि धर्मसारथयः सन्तीति विशेषयन्नाह धम्मवरचाउरंतचक्कवट्टी ति, त्रयः समुद्राश्चतुर्थश्च हिमवानेते चत्वारोऽन्ताः पृथिव्यन्ताः, एतेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, वरश्चासौचातुरन्तचक्रवर्तीच वरचातुरन्तचक्रवर्ती- राजातिशयः, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हिपृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा भगवान्धर्मविषये शेषप्रणेतृणांमध्ये सातिशयत्वात्तथोच्यत इति, अथवा धर्म एव वरमितरचक्रापेक्षया कपिलादिधर्मचक्रापेक्षया वा चतुरन्तम्, दानादिभेदेन चतुर्विभागं चतसृणां वा नरनारकादिगतीनामन्तकारित्वाच्चतुरन्तं तदेव चातुरन्तं यच्चक्रं भावारातिच्छेदात्तेन वर्तितुं शीलं यस्य स तथा, एतच्च धर्मदेशकत्वादिविशेषणकदम्बकं प्रकृष्टज्ञानादियोगे सति भवतीत्याह अप्पडिहयवरनाणदंसणधरे त्ति, अप्रतिहते कटकुट्यादिभिरस्खलितेऽविसंवादके वाऽत एव क्षायिकत्वाद्वा वरे प्रधाने ज्ञानदर्शने केवलाख्ये विशेषसामान्यबोधात्मके धारयति यः स तथा, छद्मवानप्येवंविधसंवेदनसंपदुपेतः कैश्चिदभ्युपगम्यते, स च मिथ्योपदेशित्वान्नोपकारी भवतीति निश्छद्मताप्रतिपादनायाऽस्याह, अथवा कथमस्याप्रतिहतसंवेदनत्वं संपन्नम्?, अत्रोच्यते, आवरणाभावाद्, एनमे // 16 //