________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 15 // विवेचनम्। त्पुरुषोत्तमोऽसौ। न चायं पुरुषोत्तम एव, किन्तु?, लोकस्याप्युत्तमो, लोकनाथत्वाद्', एतदेवाह लोगणाहे त्ति, लोकस्य १शतके सज्ञिभव्यलोकस्य नाथः प्रभुर्लोकनाथः,नाथत्वंच योगक्षेमकारित्वं योगक्षेमकृन्नाथ इति वचनात्, तच्चास्याप्राप्तस्य सम्यग्दर्श उद्देशकः१ सूत्रम् 5 नादेर्योगकरणेन लब्धस्य च परिपालनेनेति, लोकनाथत्वं च यथाऽवस्थितसमस्तवस्तुस्तोमप्रदीपनादेवेत्यत आह लोगपईवे श्रमणभगत्ति लोकस्य विशिष्टतिर्यग्नरामररूपस्याऽऽन्तरतिमिरनिराकरणेन प्रकृष्टप्रकाशकारित्वात्प्रदीप इव प्रदीपः, इदं विशेषणं वन्महावीरस्य तीर्थकराऽऽद्रष्ट्रलोकमाश्रित्योक्तम्, अथ दृश्यं लोकमाश्रित्याह लोगपज्जोयगरे त्ति, लोकस्य, लोक्यत इति लोकः, अनया व्युत्पत्त्या दिपदानां लोकालोकस्वरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्त्तनेन, प्रद्योतं प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरः / उक्तविशेषणोपेतश्च मिहिरहरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह अभयदए त्ति, न भयं दयते ददाति प्राणापहरणरसिकेऽप्युपसर्गकारिणि प्राणिनीत्यभयदयः, अभया वा सर्वप्राणिभयपरिहारवती दया, अनुकम्पा यस्य सोऽभयदयः, हरिहरमिहिरादयस्तु नैवमिति विशेषः, न केवलमसावपकारिणां तदन्येषांवाऽनर्थपरिहारमात्रं करोत्यपित्वर्थप्राप्तिमपि करोतीति दर्शयन्नाह चक्खुदये त्ति, चक्षुरिव चक्षुः श्रुतज्ञानं शुभाशुभार्थविभागोपदर्शकत्वात्, यदाह चक्षुष्मन्तस्त एवेह, ये श्रुतज्ञान चक्षुषा / सम्यक् सदैव पश्यन्ति, भावान् हेयेतरान्नराः॥१॥तद्दयत इति चक्षुर्दयः, यथा हि लोके कान्तारगतानां चौरेविलुप्तधनानां बद्धचक्षुषां चक्षुरुद्धाटनेन चक्षुर्दत्त्वा वाञ्छितमार्गदर्शनेनोपकारी भवति, एवमयमपि संसारारण्यवर्तिनां सिरण्यातना // 15 // रागादिचौरविलुप्तधर्मधनानांकुवासनाऽऽच्छादितसज्ज्ञानलोचनानांतदपनयनेन श्रुतचक्षुर्दत्त्वा निर्वाणमार्ग यच्छन्नुपकारीति दर्शयन्नाह मग्गदए त्ति, मार्ग सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपुरपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्धाटनं