________________ उद्देशकः१ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 14 // सूत्रम् वन्महावीरस्य खंतिखमे परिसहोवसग्गाणं। देवेहिं (से नाम) कए (समणे भगवं) महावीरेत्ति, आदिकरे त्ति, आदौ प्रथमतः श्रुतधर्ममाचारादि-8 १शतके ग्रन्थात्मकं करोति, तदर्थप्रणायकत्वेन प्रणयतीत्येवंशील आदिकरः, आदिकरत्वाच्चासौ किंविध इत्याह तित्थयरे त्ति तरन्ति तेन संसारसागरमिति तीर्थं प्रवचनं तदव्यतिरेकाच्चेह सङ्घस्तीर्थं तत्करणशीलत्वात्तीर्थकरः, तीर्थकरत्वं चास्य नान्योपदेश- श्रमणभगपूर्वकमित्यत आह सहसंबुद्धे त्ति, सह, आत्मनैव सार्द्धमनन्योपदेशत इत्यर्थः, सम्यग्यथावबुद्धो हेयोपादेयोपेक्षणीयवस्तुतत्त्वं तीर्थंकराविदितवानिति सहसंबुद्धः। सहसंबुद्धत्वं चास्य न प्राकृतस्य सतः, पुरुषोत्तमत्वादित्यत आह पुरिसोत्तमो त्ति, पुरुषाणांमध्ये दिपदानां विवेचनम्। तेन तेन रूपादिनाऽतिशयेनोद्भूतत्वादूर्ध्ववर्त्तित्वादुत्तमःपुरुषोत्तमः, अथ पुरुषोत्तमत्वमेवास्य सिंहाद्युपमानत्रयेण समर्थयन्नाह पुरिससीहे त्ति, सिंह इव सिंहः, पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्ये स उपमानं कृतः,शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाप्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहतिप्रवर्द्धमानामरशरीरकुब्जताकरणाच्चेति,तथा पुरिसवरपुंडरीए त्ति, वरपुण्डरीकं प्रधानधवलसहस्रपत्रम्, पुरुष एव वरपुण्डरीकमिवेति पुरुष-8 वरपुण्डरीकम्, धवलत्वंचास्य भगवतःसर्वाशुभमलीमसरहितत्वात्सर्वैश्च शुभानुभावैः शुद्धत्वात्, अथवा पुरुषाणांतत्सेवकजीवानां वरपुण्डरीकमिववरच्छत्रमिव यः सन्तापातपनिवारणसमर्थत्वाद्भूषाकारणत्वाच्च स पुरुषवर पुण्डरीकमिति, तथा पुरिसवरगंधहत्थि त्ति पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनापि समस्तेतरहस्तिनो भज्यन्ते तथा / भगवतस्तद्देशविहरणेन, ईतिपरचक्रदुर्भिक्षडमरमरकादीनि दुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यत इत्यत उपमात्रयाale क्षान्तिक्षमः परीषहोपसर्गाणां / देवैः (तस्य नाम) कृतं (श्रमणो भगवान्) महावीर इति। (समानः पाठः श्री कल्पसूत्रे)। इतिः, धान्याधुपद्रवकारी प्रचुरो। मूषकादि प्राणिगणः। 'डमरो लण्ट्यादि' उति हैमः // 14 //