________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ श्रमणभग // 13 // दृश्यः / तस्स णं ति षष्ठ्याः पञ्चम्यर्थत्वात्तस्माद्राजगृहानगरात् बहिय त्ति बहिस्तात्, उत्तरपुरच्छिमे त्ति, उत्तरपौरस्त्ये दिसीभाए , १शतके त्ति दिशां भागो दिग्रूपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र, गुणसिलकं नाम चेइयं ति चितेर्लेप्यादिचयनस्य भावः कर्म उद्देशकः१ सूत्रम् 5 वेति चैत्यम्, सज्ञा शब्दत्वाद्देवबिम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यम्, तच्चेह व्यन्तरायतनं न तु भगवतामर्हतामायतनम्, होत्थ त्ति बभूव, इह च यन्न व्याख्यास्यते तत्प्रायः सुगमत्वादित्यवसेयमिति // 4 // वन्महावीरस्य तीर्थकराऽऽते णं काले णं ते णं समए णं समणे भगवं महावीरे आइगरे तित्थगरे सहसंबुद्धे पुरिसुत्तमे पुरिससीहे पुरिसवरपुंडरीए दिपदानां पुरिसवरगंधहत्थीए लोगुत्तमे लोगनाहे लोगप्पदीवे लोगपज्जोयगरे अभयदए चक्खुदए मग्गदए सरणदए धम्मदेसए धम्मसारहीए विवेचनम्। धम्मवरचाउरंतचक्कवट्टी अप्पडिहयवरनाणदंसणधरे वियदृछउमे जिणे जाणए बुद्धे बोहए मुत्ते मोयए सव्वन्नूसव्वदरिसी सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं (वित्तियं) सिद्धिगइनामधेयं ठाणं संपाविउकामे जाव समोसरणं ॥सूत्रम्५॥ परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया ।सूत्रम् 5 // समणे त्ति श्रमु तपसि खेदे चे ति वचनाच्छ्राम्यतितपस्यतीति श्रमणः, अथवा सह शोभनेन मनसा वर्तत इति समनाः, शोभनत्वं च मनसो व्याख्यातं स्तवप्रस्तावात्, मनोमात्रसत्त्वस्यास्तवत्वात्, संगतं वा, यथा भवत्येवमणति भाषते समोवा सर्वभूतेषु सन्, अणति- अनेकार्थत्वाद्धातूनां प्रवर्तत इति समणो निरुक्तिवशाद्भवति, भगवं ति भगवान्- ऐश्वर्यादियुक्तः पूज्य इत्यर्थः, महावीरे त्ति वीरः, सूर वीर विक्रान्तावि तिवचनाद्रिपुनिराकरणतो विक्रान्तः, स च चक्रवर्त्यादिरपि स्यादतो विशेष्यते, महांश्चासौ दुर्जयान्तररिपुतिरस्करणाद्वीरश्चेति महावीरः, एतच्च देवैर्भगवतोगौणं नाम कृतम्, यदाह अयले भयभेरवाणं धम्मदए इति पा०10 अचलो भयभैरवयोः 2 // 13