________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 417 // महत्त्वाच्चाधेयस्येति, तथा परित्ता राइंदिय त्ति परीत्तानि नियतपरिमाणानि नानन्तानि, इहायमभिप्रायः, यद्यनन्तानि तानि 5 शतके तदा कथं परीत्तानि? इति विरोधः, अत्र हन्तेत्याधुत्तरम्, अत्र चायमभिप्रायः, असङ्ख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा उद्देशकः 9 राजगृहावर्त्तते(न्ते), तथाविधस्वरूपत्वाद्, एकत्राश्रये सहस्रादिसङ्घयप्रदीपप्रभा इव, ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते। धिकारः। विनश्यन्ति च, स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु प्रत्येकशरीरावस्थायां च परीत्तेषु प्रत्येकं वर्त्तते, सूत्रम् 226 श्रीपापित्यतत्स्थितिलक्षणपर्यायरूपत्वात्तस्य, तथा च कालोऽनन्तः परीतश्च भवतीति, एवं चासङ्खयेयेऽपि लोके रात्रिन्दिवान्य- स्थविराणां नन्तानि परीत्तानि च कालत्रयेऽपि युज्यन्त इति // 16 एतदेव प्रश्नपूर्वकं तत्संमतजिनमतेन दर्शयन्नाह से नूण मित्यादि, भेत्ति रात्रिन्दिवाऽऽ नन्त्ये प्रश्नाः। भवतां सम्बंधिना, अज्जो त्ति हे आर्याः! पुरिसादाणीएणं ति पुरुषाणां मध्य आदानीय आदेयः पुरुषादानीयस्तेन, सासए त्ति पञ्चमहाव्रतप्रतिक्षणस्थायी, स्थिर इत्यर्थः, बुइए त्ति, उक्तः, स्थिरश्चोत्पत्तिक्षणादारभ्य स्यादित्यत आह, अणाइए त्ति, अनादिकः, सच स्वीकारः। सूत्रम् 227 सान्तोऽपि स्याद्भव्यत्ववदित्याह, अनवयग्गे त्ति, अनवदग्रोऽनन्तः, परित्ते त्ति परिमितः प्रदेशतः, अनेन लोकस्यासङ्खयेयत्वं देवलोकप्रकार पार्श्वजिनस्यापि संमतमिति दर्शितम् / तथा परिवुडे त्ति, अलोकेन परिवृत्तः, हेट्ठा विच्छिन्ने त्ति सप्तरज्जुविस्तृतत्वात्, मज्झे प्रश्नः उद्देशक सङ्गहगाथा च। संखित्ते त्ति, एकरज्जुविस्तारत्वात्, उप्पिं विसाले त्ति ब्रह्मलोकदेशस्य पञ्चरज्जुविस्तारत्वात्, एतदेवोपमानतः प्राह, अहे पलियंकसंठिए त्ति, उपरिसङ्कीर्णत्वाधोविस्तृतत्वाभ्याम्, मझे वरवइरविग्गहिए त्ति वरवज्रवद्विग्रहः शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः, उप्पिं उद्धमुइंगागारसंठिए त्ति, ऊो न तु तिरश्चीनो यो मृदङ्गस्तस्याऽऽकारेण संस्थितो यःस तथा, मल्लकसंपुटाकार इत्यर्थः, अणंता जीवघण त्ति, अनन्ताः परिमाणतः सूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात्, सन्तत्यपेक्षया वाऽनन्ताः,जीवसन्ततीनामपर्यवसानत्वात्, जीवाश्च तेघनाश्चानन्तपर्यायसमूहरूपत्वादसङ्खयेयप्रदेशपिण्डरूप // 417 //