SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 5 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ / / 415 // एषामेतत्क्षेत्रे सत्यपि रविकरादिसंपर्क एषांचक्षुरिन्द्रियाभावेन दृश्यवस्तुनो दर्शनाभावच्छुभपुद्गलकार्याकरणेनाशुभाः पुद्गला उच्यन्ते ततश्चैषामन्धकारमेवेति।९-१० चउरिंदियाणं सुभासुभे पोग्गल त्ति, एषां हि चक्षुःसद्भावे रविकरादिसद्भावे दृश्यार्थावबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकराद्यभावे त्वर्थावबोधाजनकत्वादशुभा इति // 224 // ११पुद्गला द्रव्यमिति तच्चिन्ताऽनन्तरंकालद्रव्यचिन्तासूत्रम् तत्थ गयाणं ति नरके स्थितैः षष्ठयास्तृतीयार्थत्वात्, एवं पण्णायति त्ति, एवं हि प्रज्ञायते समयाइव त्ति समया इति वा इहं तेसिं ति, 12 इह मानुष्यक्षेत्रे तेषां समयादीनां मानं परिमाणम्, आदित्यगतिसमभिव्यङ्गयत्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एव भावान्नरकादौ त्वभावादिति, इह तेसिं पमाणं ति, इह मनुष्यक्षेत्रे तेषां समयादीनां प्रमाणं प्रकृष्टं मानं सूक्ष्ममानमित्यर्थः, तत्र मुहूर्तस्तावन्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमाणं लवस्तु मानमित्येवं नेयं यावत्समय इति, ततश्चेहं तेसि मित्यादि, इह मर्त्यलोके मनुजैस्तेषां समयादीनां सम्बन्धी, एवं वक्ष्यमाणस्वरूपं समयत्वाद्येव ज्ञायते, तद्यथा समया इति वेत्यादि, 13 इह च समयक्षेत्राद्वहिर्वर्त्तिनां सर्वेषामपि समयाद्यज्ञानमवसेयं तत्र समयादिकालस्याभावेन तद्व्यवहाराभावात्, तथा पञ्चेन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काच यद्यपि केचिन्मनुष्यलोके सन्ति तथापि तेऽल्पाः प्रायस्तदव्यहारिणश्चेतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति॥ 225 // कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरूपणार्थमिदमाह 15 तेणं कालेणं 2 पासावच्चिज्जा (ते) थेरा भगवंतो जेणेव समणे भ० महा० तेणेव उवागच्छंति 2 ता समणस्स भ० 2 अदूरसामंते ठिच्चा एवंव०-सेनूणं भंते ! असंखेल्जे लोए अणंता रातिंदिया उप्पलिंसुवा उप्पजंति वा उप्पजिस्संति वा विगच्छिंसुवा विगच्छंति वा विगच्छिस्संति वा परित्ता रातिंदिया उप्पलिंसुवा 3 विगच्छिंसुवा 3?, हंता अजो! असंखेने लोए अणंता रातिंदिया तंचेव, 16 राजगृहाधिकारः। सूत्रम् 226 श्रीपापित्यस्थविराणां रात्रिन्दिवाऽऽनन्त्ये प्रश्नाः। पञ्चमहाव्रतस्वीकारः। सूत्रम् 227 देवलोकप्रकार प्रश्नः उद्देशकसङ्ग्रहगाथा च। // 415 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy