SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यक श्रीअभय. वृत्तियुतम् भाग-१ // 412 // आणयपाणयाणं संखेज्जा मासा आरणच्चुयाणं संखेज्जा वास त्ति, इह विरहकालस्य सङ्ग्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि सङ्ख्यातत्वमेवेत्यतः सङ्ख्याता मासा इत्याद्युक्तम्, एवं गेवेज्जदेवाणं ति, इह यद्यपि ग्रैवेयकाधस्तनत्रये सङ्ख्यातानि वर्षाणां उद्देशकः८ निर्ग्रन्थीशतानि मध्यमे सहस्राण्युपरिमे लक्षाणि विरह उच्यते तथापि द्विगुणितेऽपि च सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु / | पुत्राधिकारः। त्वसङ्ख्यातकालो विरहः स च द्विगुणितोऽपि स एव, सर्वार्थसिद्धे पल्योपमसङ्ग्येयभागः सोऽपि द्विगुणितः सङ्गयेयभाग सूत्रम् 222 जीवानां एव स्यादतएव उक्तं विजयवेजयंतजयंतापराजियाणं असंखेज्जाई वाससहस्साइ मित्यादीति // 12 जीवादीनेव भङ्गयन्तरेणाह, नैरयिकादीनां सिद्धानाच जीवाण मित्यादि, सोपचयाः सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात्सापचयाःप्राक्तनेभ्यः केषाश्चिदुद्वर्तनात्सहानयः, सोपचयसापचया, वृद्धिहानि उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावान्निरुपचयनिरपचया उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो / निरुपचयादि वृद्धिरपचयस्तु हानिः, युगपद्द्याभावरूपञ्चावस्थितत्वम्, एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः?, उच्यते, पूर्व परिणाम (माण) मात्रमभिप्रेतम्, इह तु तदनपेक्षमुत्पादोद्वर्तनामानं ततश्चेह तृतीयभङ्गके पूर्वोक्तवृद्ध्यादिविकल्पानांत्रयमपि स्यात्, तथाहि, बहुतरोत्पादे वृद्धिर्बहुत्तरोद्वर्त्तने च हानिः, समोत्पादोद्वर्त्तनयोश्चावस्थितत्वमित्येवं भेद इति / एगिंदिया तइयपए। त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्त्तनाभ्यां वृद्धिहानिभावात्, शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्त्तनयोस्तद्विरहस्य चाभावादिति। 18 अवट्ठिएहिं ति निरुपचयनिरपचयेषु वक्कंतिकालो भाणियव्वो त्ति विरहकालो वाच्यः॥ 222 // पञ्चम शतेऽष्टमः // 5-8 // सोपचय प्रश्नाः // 412 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy