________________ श्रीभगवत्य श्रीअभयवृत्तियुतम् भाग-१ // 406 // 5 शतके उद्देशक:८ निर्ग्रन्थीपुत्राधिकारः। सूत्रम् 221 द्रव्याद्याऽऽ देशेन त्वमिति 4 // एतदेव भाव्यते, भावेणं अपएसा जे ते कालेण हुंति दुविहावि। दुगुणादओवि एवं भावेणं जावऽणंतगुणा // 5 // भावतो येऽप्रदेशा एकगुणकालत्वादयो भवन्ति ते कालतो द्विविधा अपि भवन्ति सप्रदेशा अप्रदेशाश्चेत्यर्थः, तथा भावेन द्विगुणादयोऽप्यनन्तगुणान्ताः, एव मिति द्विविधा अपि भवन्ति, ततश्च-कालापएसयाणं एवं एक्कक्कओ हवति रासी। एक्कक्कगुणट्ठाणम्मि एगगुणकालयाईसु॥ 6 // एकगुणकालाद् द्विगुणकालादिषु गुणस्थानकेषु मध्य एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति, ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति / / 5-6 // अथ प्रेरकः- आहाणंतगुणत्तणमेवं कालापएसयाणंति। जमणंतगुणट्ठाणेसु होंति रासीवि हु अणंता / / 7 // एवमिति- यदि प्रतिगुण स्थानकं कालाप्रदेशराशयोऽभिधीयन्त इति, अत्रोत्तरम्, भण्णइ एगगुणाणवि अणंतभागंमि जं अणंतगुणा। तेणासंखगुण च्चिय हवंतिणाणंतगुणियत्तं / / 8 // अयमभिप्रायः- यद्यप्यनन्तगुणकालत्वादीनामनन्ता राशयस्तथाप्येकगुणकालत्वादीनामनन्तभाग एव ते वर्तन्त इति न तदारेण कालाप्रदेशानामनन्तगुणत्वमपि त्वसङ्ख्यातगुणत्वमेवेति // 7-8 // एवं ता भावमिणं पडुच्च कालापएस(सि)या सिद्धा / परमाणुपोग्गलाइसु दव्वेवि हु एस चेव गमो॥९॥ एवं तावद्भावं वर्णादिपरिणाममिमुक्तरूपमेकाद्यनन्तगुणस्थानवर्त्तिनमित्यर्थः प्रतीत्य कालाप्रदेशिकाः पुद्गलाः सिद्धाः, कालाप्रदेशता वा पुद्गलानां सिद्धा प्रतिष्ठिता, द्रव्येऽपि द्रव्यपरिणाममप्यङ्गीकृत्य परमाण्वादिष्वेष एव भावपरिणामोक्त एव गमः, व्याख्या॥९॥एमेव होइ खेत्ते एगपएसावगाहणाईसुं। ठाणंतरसंकर्ति पडुच्च कालेण मग्गणया॥१०॥एवमेव द्रव्यपरिणामवद्भवति क्षेत्रे क्षेत्रमधिकृत्यैकप्रदेशावगाढादिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानांमार्गणा॥१०॥संकोयविकोयंपि हु पडुच्च ओगाहणाएँ एमेव / तह सुहुमबायरनिरेयसेयसद्दाइपरिणामं // 11 // यथा क्षेत्रत एवमवगाहनादितोऽपीत्येतदुच्यते- अवगाहनायाः सङ्कोचं विकोचं च प्रतीत्य पुद्गलानां सार्धतासप्रदेशताऽऽदि तेषामल्पबहुत्वादि |प्रश्नाः / // 406 //