________________ भाग-१ हेत्वादि प्रश्नाः / श्रीभगवत्यङ्ग एवं बुध्यते सम्यक् श्रद्धत्त इति बोधेः सम्यक्श्रद्धानपर्यायत्वादिति तृतीयः, तथा हेतुमभिसमागच्छति साध्यसिद्धौ व्यापारणतः 5 शतके श्रीअभय. सम्यक् प्राप्नोतीति चतुर्थः, तथा हेउं छउमत्थे त्यादि, हेतुरध्यवसानादिमरणकारणं तद्योगान्मरणमपि हेतुरतस्तं हेतुमदित्यर्थः उद्देशक:७ वृत्तियुतम् पुद्लादि छद्मस्थमरणम्, न केवलिमरणम्, तस्याहेतुकत्वात्, नाप्यज्ञानमरणमेतस्य सम्यग्ज्ञानित्वादज्ञानमरणस्य च वक्ष्यमाणत्वात्। एजनाधिकारः। // 401 // म्रियते, करोतीति पञ्चमः॥२ प्रकारान्तरेण हेतूनेवाह पंचे त्यादि, हेतुनाऽनुमानोत्थापकेन जानाति, अनुमेयं सम्यगवगच्छति सूत्रम् 220 बहुश्रुतसम्यग्दृष्टित्वादेकः, एवं पश्यतीति द्वितीयः, एवं बुध्यते श्रद्धत्त इति तृतीयः, एवमभिसमागच्छति प्राप्नोतीति चतुर्थः, गम्यार्थाः पंचहेत्वतथाकेवलित्वाद्धेतुनाऽध्यवसानादिना छद्मस्थमरणं नियत इति पञ्चमः॥ 3 अथ मिथ्यादृष्टिमाश्रित्य हेतूनाह पंचे त्यादि, पञ्च क्रियाभेदाद्धेतवो हेतुव्यवहारित्वात्, तत्र हेतुं लिङ्गंन जानाति, नञः कुत्सार्थत्वादसम्यगवैति मिथ्यादृष्टित्वात् 1, एवं न पश्यति 2, एवं न बुध्यते 3, एवं नाभिसमागच्छति 4, तथा हेतुमध्यवसानादिहेतुयुक्तमज्ञानमरणं म्रियते करोति मिथ्यादृष्टित्वेनासम्यग्ज्ञानत्वादिति 5 // 4 हेतूनेव प्रकारान्तरेणाह पंचे त्यादि, हेतुना लिङ्गेन न जानात्यसम्यगवगच्छति, एवमन्येऽपि चत्वारः॥ 5 अथोक्तविपक्षभूतानहेतूनाह पंचे त्यादि, प्रत्यक्षज्ञानित्वादिनाहेतुव्यवहारित्वादहेतवः केवलिनः, ते च पञ्चक क्रियाभेदात्, तद्यथा, अहेतुं जाणइत्ति, अहेतुंन हेतुभावेन सर्वज्ञत्वेनानुमानानपेक्षत्वाद्भूमादिकं जानाति स्वस्याननुमानोत्थापकतयेत्यर्थः, अतोऽसावहेतुरेव, एवं पश्यतीत्यादि, तथाऽहेतुं केवलिमरणं मरइ त्ति, अहेतुं निर्हेतुकमनुपक्रमत्वात् केवलिमरणं म्रियते करोतीत्यहेतुरसौ पञ्चम इति // 6 प्रकारान्तरेणाहेतूनेवाह पंचे त्यादि तथैव नवरमहेतुना हेत्वभावेन केवलित्वाजानाति योऽसावहेतुरेव, एवं पश्यतीत्यादयोऽपि 3, अहेउणा केवलिमरणं मरइत्ति, अहेतुनोपक्रमाभावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति // 7 अहेतूनेव प्रकारान्तरेणाह पंच अहेऊ, इत्यादि, अहेतवोऽहेतुव्यवहारिणः, ते च पञ्च // 401 //