________________ ५शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् उद्देशक: 7 पुद्गलादि भाग-१ // 400 // एजनाधिकारः। सूत्रम् 220 बहुश्रुतगम्यार्थाः पंचहेत्वहेत्वादि प्रश्रा। विशेषाः चरिय त्ति चरिका गृहप्राकारान्तरो हस्त्यादिप्रचारमार्गः, दार त्ति द्वारं खडक्किका गोउर त्ति गोपुरं नगरप्रतोली, पासाय त्ति प्रासादा देवानां राज्ञां च भवनानि, अथवोत्सेधबहुलाः प्रासादाः, घर त्ति गृहाणि सामान्यजनानां सामान्यानि वा, सरण त्ति शरणानि तृणमयाऽवसरिकादीनि, आवण त्ति, आपणा हट्टाः, शृङ्गाटकं स्थापना A,त्रिकं स्थापना / , चतुष्कं स्थापना +, चत्वरं स्थापना *, चतुर्मुखं चतुर्मुखदेवकुलकादि महापह त्ति राजमार्गः, सगडे त्यादि प्राग्वत्, लोहि त्ति लौहि मण्डकादिपचनिका लोहकडाहि त्ति कवेल्ली कडुच्छुय त्ति परिवेषणाद्यर्थो भाजनविशेषः, भवण त्ति भवनपतिनिवास:(सा) // 219 // एते च नारकादयश्छद्मस्थत्वेन हेतुव्यवहारकत्वाद्धेतव उच्यन्त इति तद्भेदान्निरूपयन्नाह १पंच हेऊ प०, तंजहा- हे जाणइ हेउं पासइ हेउंबुज्झइ हेउं अभिसमागच्छति हेउं छउमत्थमरणं मरइ॥२पंचेव हेऊ पं०, तंजहा- हेउणा जाणइ जाव हेउणा छउमत्थमरणं मरइ // 3 पंच हेऊ प०, तंजहा- हेउं न जा. जाव हेउं अन्नाणमरणं म०॥४ पंच हेऊप०, तंजहा- हेउणा ण जा० जाव हेउणा (अन्नाण) म०म०॥५पंच अहेऊ प०, तंजहा- अहेउं जा० जाव अहेउं केवलिमरणं म०॥६पंच अहेऊ प०, तंजहा- अहेउणा जा० जाव अहेउणा केवलिमरणं म०॥७पंच अहेऊ प०, तंजहा- अहेउं न जा जाव। अहेउं छउमत्थमरणंम०॥९पंच अहेऊप०, तंजहा- अहेउणा न जा. जाव अहेउणा छउमत्थमरणं म० / सेवं भंते 2 त्ति ॥सूत्रम् २२०॥पञ्चमशते सप्तमोद्देशकः // 5-7 // १पंच हेवि त्यादि, इह हेतुषु वर्तमानः पुरुषो हेतुरेव तदुपयोगानन्यत्वात्, पञ्चविधत्वं चास्य क्रियाभेदादित्यत आह हेडं जाणइ त्ति हेतुं साध्याविनाभूतं साध्यनिश्चयार्थं जानाति विशेषतः सम्यगवगच्छति सम्यग्दृष्टित्वात्, अयं पञ्चविधोऽपि सम्यग्दृष्टिमन्तव्यो मिथ्यादृष्टेः सूत्रद्वयात्परतो वक्ष्यमाणत्वादित्येकः, एवं हेतुं पश्यति सामान्यत एवावबोधादिति द्वितीयः,