________________ 5 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 397 // उद्देशकः पुद्लादि एजनाधिकारः। सूत्रम् 218 द्रव्याद्यवस्थानायुरल्पबहुत्व प्रश्ना : / मित्यत उच्यते, ओगाहद्धा दव्वे संकोयविकोयओ य अवबद्धा। न उदवं संकोयणविकोयमित्तेण संबद्धं // ८॥जम्हा तत्थऽण्णत्थ व दवं ओगाहणाएँ तं चेव / दव्वद्धा संखगुणा तम्हा ओगाहणद्धाओ॥९॥अवगाहनाद्धा द्रव्येऽवबद्धा नियतत्वेन संबद्धा, कथं? सङ्कोचाद्विकोचाच्च, सङ्कोचविकोचादि परिहत्येत्यर्थ, अवगाहना हि द्रव्ये सङ्कोचविकोचयोरभावे सति भवति तत्सद्भावे चन भवतीत्येवं द्रव्येऽवगाहनाऽनियतत्वेन संबद्धत्युच्यते, द्रुमत्वे खदिरत्वमिवेति / उक्तविपर्ययमाह, न पुनर्द्रव्यं सङ्कोचविकोचमात्रेसत्यप्यवगाहनायां नियतत्वेन संबद्धम्, सङ्कोचविकोचाभ्यामवगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्यवगाहनायां तन्नियतत्वेनासंबद्धमित्युच्यते, खदिरत्वे दुमत्ववदिति / अथ निगमनम्। अथ भावायुर्बहुत्वं भाव्यते, संघायभेयओ वा दव्वोवरमेऽवि पज्जवा संति। तं कसिणगुणविरामे पुणाइ दव्वं न ओगाहो॥१०॥सङ्घातादिना द्रव्योपरमेऽपि पर्यवाः सन्ति, यथा मृष्टपटेशुक्लादिगुणाः, सकलगुणोपरमेतुन तद्रव्यंन चावगाहानानुवर्त्तते, अनेनपर्यवाणां चिरंस्थानं द्रव्यस्य त्वचिरमित्युक्तम्, अथ कस्मादेवमिति?, उच्यते, संघायभेयबंधाणुवत्तिणी निच्चमेव दव्वद्धा। न उ गुणकालो संघायभेयमेत्तऽद्धसंबद्धो॥ 11 // सङ्गातभेदलक्षणाभ्यां धर्माभ्यायो बन्धः सम्बन्धस्तदनुवर्तिनी तदनुसारिणी, सङ्घाताद्यभाव एव द्रव्याद्धायाः सद्भावात्तद्भावे चाभावात्, न पुनर्गुणकालः सङ्घातभेदमात्रकालसंबद्धः, सङ्घातादिभावेऽपि गुणानामनुवर्त्तनादिति // 11 // जम्हा तत्थऽण्णत्थ य दव्वे खेत्तावगाहणासुंच। ते चेव पज्जवा संति तो तदद्धा असंखगुणा // 12 // आह अणेगंतोऽयं दव्वोवरमे गुणाणऽवत्थाणं। गुणविप्परिणामंमि य दव्वविसेसो यऽनेगंतो॥१३॥ विप्परिणयंमि दव्वे कम्मिं गुणपरिणई भवे जुगवं। कम्मिवि पुण तदवत्थे होइ पुण गुणा परीणामी // 14 // भण्णइ सच्चं किं पुण गुणबाहुल्ला न सव्वगुणनासो। दव्वस्स तदण्णत्तेऽवि बहुतराणं गुणाण ठिई // 15 // अथ निगमनम्, द्रव्यविशेषः द्रव्यपरिणामः ॥१२-१५॥॥२१८॥अनन्तरमायुरुक्तम्, अथायुष्मत आरम्भादिनाचतुर्विंशतिदण्डकेन