SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ 5 शतके उद्देशकः 7 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 396 // पुद्रलादि एजनाधिकारः सूत्रम् 218 द्रव्याद्यवस्थानायुरल्पबहत्व 21A गाहित्वमिति / कयर इत्यादि कण्ठ्यम्, एषां च परस्परेणाल्पबहुत्वव्याख्या गाथानुसारेण कार्या, ताश्चेमाः खेत्तोगाहणदव्वेभावट्ठाणाउ अप्पबहुयत्ते / थोवा असंखगुणिया तिन्नि य सेसा कह णेया? ॥१॥खेत्तामुत्तत्ताओ तेण समं बंधपच्चयाभावा / तो पोग्गलाण थोवो खेत्तावट्ठाणकालो उ॥२॥ अयमर्थ:-क्षेत्रस्यामूर्त्तत्वेन क्षेत्रेण सह पुद्गलानां विशिष्टबन्धप्रत्ययस्य स्नेहादेरभावान्नैकत्र ते चिरं तिष्ठन्तीति शेषः, यस्मादेवंतत इत्यादि व्यक्तम् / अथावगाहनाऽऽयुर्बहुत्वंभाव्यते, अण्णक्खेत्तगयस्सवि तं चिय माणं चिरंपि संभवइ। ओगाहणनासे पुण खेत्तण्णत्तं फुडं होइ॥ 3 // ओगाहणावबद्धा खेत्तद्धा अक्कियावबद्धा य / न उ ओगाहणकालो खेत्तद्धामेत्तसंबद्धो॥४॥जम्हा तत्थऽण्णत्थ य सच्चिय ओगाहणा भवे खेत्ते। तम्हा खेत्तद्धाओऽवगाहणद्धा असंखगुणा॥ ५॥इह पूर्वार्द्धन क्षेत्राद्धाया अधिका अवगाहनाद्धेत्युक्तम्, उत्तरार्द्धन त्ववगाहनाद्धातो नाधिका क्षेत्राद्धेति / कथमेतदिदमिति?, उच्यते, अवगाहनायामगमनक्रियायां च नियता क्षेत्राद्धा- विवक्षितावगाहनासद्भाव एवाक्रियासद्भाव एव च तस्या भावादुक्तव्यतिरेके चाभावात्, अवगाहनाद्धा तुन क्षेत्रमात्रे नियता, क्षेत्राद्धाया अभावेऽपि तस्या भावादिति, अथ निगमनम् (जम्हे त्यादि)। अथ द्रव्यायुर्बहुत्वं भाव्यते, संकोयविकोएण व उवरमियाएऽवगाहणा एवि। तत्तियमेत्ताणं चिय चिरंपि दव्वाणऽवत्थाणं॥६॥सङ्कोचेन विकोचेन चोपरतायामप्यवगाहनायांयावन्ति द्रव्याणि पूर्वमासंस्तावतामेव चिरमपितेषामवस्थानं संभवति, अनेनावगाहनानिवृत्तावपि द्रव्यं न निवर्त्तत इत्युक्तम्, अथ द्रव्यनिवृत्तिविशेषेऽवगाहना निवर्त्तत एवेत्युच्यते, संघायभेयओ वा दव्वोवरमे पुणाइ संखित्ते / नियमा तद्दव्वोगाहणाएँ नासो न संदेहो॥७॥ सङ्घातेन पुद्गलानां भेदेन वा तेषामेव यः सङ्क्षिप्तः स्तोकावगाहनः स्कन्धो न तु प्राक्तनावगाहनः तत्र यो द्रव्योपरमो द्रव्यान्यथात्वं तत्र सति, न च सङ्घातेन न सङ्क्षिप्तः स्कन्धो भवति, तत्र सति सूक्ष्मतरत्वेनापि तत्परिणते: श्रवणात्, नियमात्तेषां द्रव्याणामवगाहनाया नाशो भवति, कस्मादेव // 396 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy