________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 393 // भ्यामित्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव विषयत्वात्, यदा तु द्विप्रदेशिकः परिणामसौम्यादेकप्रदेशस्थो भवति तदातं परमाणु सर्वेण सर्वंस्पृशतीत्युच्यते, पच्छिमएहिं तिहिं फुसइ त्ति त्रिप्रदेशिकमसौ स्पृशंस्त्रिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तद्देशस्यैव विषयत्वात्, यदा तु तस्यैकत्र प्रदेशे द्वौ प्रदेशौ, अन्यत्रैकोऽवस्थितः स्यात्तदैकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौस्पृशतीत्युच्यते, ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात्?, नैवम्, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशौ स्पृशति?, त्रिप्रदेशिके तु यापेक्षया द्वयस्पर्शन एकोऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादिति, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्व स्पृशतीति स्यादिति // 14 दुपएसिए ण मित्यादि, तइयनवमेहिं फुसइ ति यदा द्विप्रदेशिकः द्विप्रदेशस्थस्तदा परमाणुंदेशेन सर्व स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः। दुपएसिओ दुपएसिय मित्यादि, यदा द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीत एवेति, 15 अनया दिशान्येऽपिव्याख्येया इति // 216 / / पुद्रलाधिकारादेव पुद्गलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्र 16 परमाणुपोग्गले णं भंते! कालतो केवच्चिरं होति?, गोयमा! जहन्नेणं एगं समयं उक्कोसेणं असंखेनं कालं, एवं जाव अणंतपएसिओ।१७ एगपदेसोगाढेणं भंते! पोग्गले सेए तम्मि वा ठाणेसु अन्नमि वा ठाणे कालओ केवचिरं होइ?, गोयमा! जह० एगं समयं उक्को० आवलियाए असंखेजइभागं, एवं जाव असंखेजपदेसोगाढे / 18 एगपदेसोगाढे णं भंते! पोग्गले निरेए का० के० 5 शतके उद्देशक: पुगलादि एजनाधिकारः। सूत्रम् 217 परमाणुपुद्गलादीनां कालस्थितिनिष्कंपादिवर्णादिशब्दादि परिणत स्थिति तेषामंतरादि प्रश्नाः / 8 // 393 //