________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 386 // संहतान् करोति, संघट्टेइ त्ति मनाक् स्पृशति, परितावेइ त्ति समन्ततः पीडयति, किलामेइ त्ति मारणान्तिकादिसमुद्धातं नयति, ठाणाओ ठाणं संकामेइ स्वस्थानात्स्थानान्तरं नयति, जीवियाओ ववरोवेइ त्ति च्युतजीवितान् करोतीति, किरियाहिं पुढे त्ति क्रियाभिः स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, धणु त्ति धनुर्दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणांतस्य दृश्यमानत्वात्, धनुरादिनिवर्त्तकशरीराणांतु जीवानां कथं पञ्च क्रिया:?,कायमात्रस्यापितदीयस्य तदानीमचेतनत्वात्, अचेतनकायमात्रादपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्त्तमानत्वात्, किञ्च, यथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्य कर्मनिबन्धनानि स्युः, न्यायस्य समानत्वादिति, अत्रोच्यते, अविरतिपरिणामान्धः, अविरतिपरिणामश्च यथा पुरुषस्यास्त्येवं धनुरादिनिवर्तकशरीरजीवानामपीति, सिद्धानांतु नास्त्यसाविति नबन्धः, पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वं तद्धेतोर्विवेकादेस्तेष्वभावादिति, किञ्च-सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति, इषुरिति शरपत्रफलादिसमुदायः॥२०६॥ 11 अहेणं से उस्वित्यादि, इह धनुष्मदादीनांयद्यपि सर्वक्रियासुकथञ्चिन्निमित्तभावोऽस्ति तथापि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणाच्छेषक्रियाणांच निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाच्चतम्रस्ता उक्ताः, बाणादिजीवशरीराणांतु साक्षाद्वधक्रियायांप्रवृत्तत्वात्पञ्चेति ॥२०७॥अथ सम्यक्प्ररूपणाऽधिकारान्मिथ्याप्ररूपणानिरासपूर्वकं सम्यक्प्ररूपणामेव दर्शयन्नाह, 12 अण्णउत्थियाणं भंते! एवमातिक्खंति जाव परूवेंति से जहानामए- जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेज्जा चक्कस्स वा नाभी |५शतके उद्देशक:६ अल्पदीर्घाऽऽयुष्कताऽधिकारः। सूत्रम् 206 पुरुषस्य धनुःपरामृशक्षेपादौ धनुर्पुरुषादीनां | क्रिया प्रश्नाः। सूत्रम् 207 धनुष आत्मगुरुतयादिभिः पतने क्रिया |प्रश्राः /