________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-१ / / 380 // न हि सामान्यहेतौ कार्य वैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात्, तथा समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं 2 असणं 4 पडिलाभेमाणस्स किं कज्जइ?, गोयमा! बहुतरिया निज्जरा कज्जइ अप्पतरे से पावे कम्मे कज्जइ त्ति वक्ष्यमाणवचनादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाल्पाऽऽयुष्कता, न हिस्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्तता संभाव्यते, जिनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, नन्वेवं धर्मार्थं प्राणातिपातमृषावादाप्रासुकदानं च क र्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः?, यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते, द्विविधाः श्रमणोपासकाः, संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तं संविग्गभावियाणं लोद्धयदिट्ठतभावियाणं च / मोत्तूण खेत्तकाले भावं च कहिंति सुद्धंछ (द्धत्थं)॥१॥तत्र लुब्धकदृष्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नभावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारित्वात्तदुपष्टम्भकत्वाच्चौचित्येन, आगमश्चैवं संथरणंमि असुद्धं दोण्हवि गेण्हंतदितयाणऽहियं / आउरदिट्ठतेणं तं चैव हियं असंथरणे॥१॥ तथा नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाण मित्यादि, अथवेहाप्रासुकदानमल्पाऽऽयुष्कतायां मुख्य कारणम्, इतरे तु सहकारिकारणे इति व्याख्येयम्,प्राणातिपातनमृषावादनयोनविशेषणत्वात्, तथाहि-प्राणानतिपात्याऽऽधाकर्मादिकरणतो मृषोक्त्वा यथा भोः साधो! स्वार्थमिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति शङ्का कार्येति, ततः प्रतिलभ्य तथा श्रमणोपासकेन भदन्त! तथारूपं श्रमणं वा (ब्राह्मणं वा, अ)प्रासुकेनानेषणीयेनाशनादिना प्रतिलाभयित्वा किं क्रियते?, गौतम! बहुतरा निर्जरा क्रियतेऽल्पतरं च पापं कर्म तेन क्रियते // 7 क्षेत्रकालौ भावं च मुक्त्वा संविग्नभावितानां लुब्धकदृष्टान्तभावितानां च शुद्धोञ्छं (शुद्धार्थं)कथयन्ति // 2 // 0 निर्वाहेऽशुद्धं 8 ददद्हतोईयोरप्यहितम्, तदेवानिर्वाह ग्लानदृष्टान्तेन हितम् // 0 न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणाम्। 5 शतके उद्देशक:६ अल्पदीर्घाऽऽयुष्कताऽधिकारः। सूत्रम् 204 अल्पदीर्घशुभाशुभायुष्ककारणअप्रासुकानेषणीयप्रासुकैषणीयप्राणातिपाततदभावादि प्रश्ना : / // 380 //