________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 379 // अन्नयरेणं मणुन्नेणं पीइकारएणं असणपाणखाइमसा० पडिला एवं खलु जीवा सुभदीहाउय० कम्मं प०॥ सूत्रम् 204 // १कहण्ण मित्यादि, अप्पाउयत्ताए त्ति, अल्पमायुर्यस्यासावल्पायुष्कस्तस्य भावस्तत्ता तस्यै, अल्पायुष्कतायै, अल्पजीवितव्यनिबन्धनमित्यर्थः, अल्पायुष्कतया वा, कर्मायुष्कलक्षणं प्रकुर्वन्ति बध्नन्ति?, पाणे अइवाएत्त त्ति प्राणान् जीवानतिपात्य विनाश्य मुसंवइत्त त्ति मृषावादमुक्त्वा तहारूवं ति तथाविधस्वभावं भक्तिदानोचितपात्रमित्यर्थः,समर्णवत्ति श्राम्यते तपस्यतीति श्रमणोऽतस्तम्, माहणं वत्ति मा हनेत्येवं योऽन्यं प्रति वक्ति स्वयं हनननिवृत्तः सन्नसौ माहनः, ब्रह्म वा ब्रह्मचर्य कुशलानुष्ठान वाऽस्यास्तीति ब्राह्मणोऽतस्तम्, वाशब्दौसमुच्चये, अफासुएणं तिन प्रगता असवोऽसुमन्तो यस्मात्तदप्रासुकं सजीवमित्यर्थः, अणेसणिज्जेणं ति, एष्यत इत्येषणीयं कल्प्यं तन्निषेधादनेषणीयं तेन, अशनादिना प्रसिद्धेन पडिलाभेत्त त्ति प्रतिलम्भ्य लाभवन्तं कृत्वा, अथ निगमयन्नाह, एव मित्यादि, एवमुक्तलक्षणेन क्रियात्रयेणेति, अयमत्र भावार्थः- अध्यवसायविशेषादेतत्त्रयं जघन्यायुः फलं भवति, अथवेहापेक्षिक्यल्पायुष्कता ग्राह्या, यतः किल जिनागमाभिसंस्कृतमतयो मुनयः प्रथमवयसं भोगिनं कञ्चन मृतं दृष्ट्वा वक्तारो भवन्ति, नूनमनेन भवान्तरे किञ्चिदशुभं प्राणिघातादि वा सेवितमकल्प्यं वा मुनिभ्यो दत्तं येनायं भोग्यप्यल्पायुः संवृत्त इति, अन्ये त्वाः, यो जीवो जिनसाधुगुणपक्षपातितया तत्पूजार्थं पृथिव्याद्यारम्भेण स्वभाण्डासत्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया, अथ नैवं निर्विशेषणत्वात्सूत्रस्य, अल्पाऽऽयुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद्, अतः कथमभिधीयते सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कतेति?उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यम्, यत इतस्तृतीयसूत्रे प्राणातिपातादित एवाशुभदीर्घाऽऽयुष्कता वक्ष्यति, 5 शतके उद्देशक:६ अल्पदीर्घाऽऽयुष्कताऽधिकारः। सूत्रम् 204 अल्पदीर्घशुभाशुभायुष्ककारणअप्रासुकानेघणीयप्रासुकैषणीयप्राणातिपाततदभावादि प्रश्ना:। // 379