________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-१ // 372 // 5 शतके उद्देशकः 4 शब्दाधिकारः। सूत्रम् 197 अनुत्तरानामप शान्तमोहादि 33 अणुत्तरोव० णं भंते! देवा किं उदिनमोहा उवसंतमोहा खीणमोहा?, गोयमा! नो उ०मो० उव०मो० णो खीणमो० // सूत्रम् 197 // 21 केवली त्यादि, 22 यथा केवली जानाति तथा छद्मस्थो न जानाति, कथञ्चित्पुनर्जानात्यपीति, एतदेव दर्शयन्नाह सोचे त्यादि 23 केवलिस्स त्ति केवलिनो जिनस्यायमन्तकरो भविष्यतीत्यादि वचनं श्रुत्वा जानातीति, केवलिसावगस्स व त्ति जिनस्य समीपे यः श्रवणार्थी सन् शृणोति तद्वाक्यान्यसौ केवलिश्रावकः तस्य वचनं श्रुत्वा जानाति, स हि किल जिनस्य समीपे वाक्यान्तराणि शृण्वन्नयमन्तकरो भविष्यतीत्यादिकमपि वाक्यं शृणुयात्ततश्च तद्वचनश्रवणाजानातीति, केवलिउवासगस्स त्ति केवलिनमुपास्ते यः श्रवणानाकाङ्क्षी तदुपासनमात्रपरः सन्नसौ केवल्युपासकः तस्य वचः श्रुत्वा जानाति, भावना प्रायः प्राग्वत्, तप्पक्खियस्स त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति वचनेन प्रकीर्णकं वचनमात्रं ज्ञाननिमित्ततयावसेयम्, न त्वागमरूपं तस्य प्रमाणग्रहणेन गृहीष्यमाणत्वादिति // 192 // 24 पमाणे त्ति प्रमीयते येनार्थस्तत्प्रमाणं प्रमितिर्वा प्रमाणं पच्चक्खे त्ति, अक्षं जीवमक्षाणि वेन्द्रियाणि प्रति गतं प्रत्यक्षम्, अणुमाणे त्ति, अनुलिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम्, ओवम्मे त्ति, उपमीयते सदृशतया गृह्यते वस्त्वनयेत्युपमा सैवौपम्यम्, आगमे त्ति, आगच्छति गुरुपारम्पर्येणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थमतिदेशत आह जहे त्यादि, एवं चैतत्स्वरूपम्, द्विविधं प्रत्यक्षमिन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रियप्रत्यक्षं पञ्चधा श्रोत्रादीन्द्रियभेदात्, नोइन्द्रियप्रत्यक्षं त्रिधा, अवध्यादिभेदादिति, त्रिविधमनुमानम्, पूर्ववच्छेषवदृष्टसाधर्म्यवच्चेति, तत्र पूर्ववत् पूर्वोपलब्धासाधारणलक्षणान्मात्रादि(देः) प्रमातुः पुत्रादिपरिज्ञानम्, शेषवत्, यत्कार्यादिलिङ्गात्परोक्षार्थज्ञानं यथा मयूरोऽत्र केकायितादिति, दृष्टसाधर्म्यवत्, यथैकस्य सातबा // 372 //