________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ / / 365 // 5 शतके उद्देशक:४ शब्दाधिकारः। सूत्रम् 187 हरिणैगमेषेगर्भाधोनिसंहरणछविच्छेदविबाधादि प्रश्नाः / माश्रित्येदमाह, 12 हरीणंभंते! हरिणेगमेसी सक्कदूए इत्थीगब्भं संहरणमाणे किंगब्भाओगब्भंसाहरइ 1 गब्भाओजोणिं साहरइ 2 जोणीओ गन्भं साहरइ 3 जोणीओ जोणिं साहरइ 4?, गोयमा! नो गम्भाओ गन्भंसाहरइ नो गब्भाओ जोणि साहरइ नो जोणीओ जोणिं साहरइ परामुसिय 2 अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भं साहरइ // 13 पभूणं भंते! हरिणेगमेसी सक्कस्स णं दूए इत्थीगन्भं नहसिरंसि वा रोमकूवंसि वा साहरित्तए वा नीहरित्तए वा?, हंता पभू, नो चेवणं तस्स गब्भस्स किंचिवि आबाहं वा विबाहं वा उप्याएजा छविच्छेदं पुण करेजा, एसुहमंच णं साहरिज वा नीहरिज वा / / सूत्रम् 187 // 12 हरी त्यादि, इह च यद्यपि महावीरसंविधानाभिधायकं पदं न दृश्यते तथाऽपि हरिनैगमेषीति वचनात्तदेवानुमीयते, हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाभविष्यत्तदा देवे णं भंते! इत्यवक्ष्यदिति, तत्र हरिरिन्द्रः तत्सम्बन्धित्वाद्धरिनैगमेषीति नाम, सक्कदूए त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधिपतिर्येन शक्रादेशाद्भगवान् महावीरो देवानन्दागर्भात्रिशलागर्भे संहृत इति, इत्थीगब्भं ति स्त्रियाः सम्बन्धी गर्भः सजीवपुद्गलपिण्डकः स्त्रीगर्भस्तं संहरेमाणे त्ति, अन्यत्र नयन्, इह चतुर्भङ्गिका, तत्र गर्भाद् गर्भाशयादवधेः, गर्भं गर्भाशयान्तरं संहरति प्रवेशयति गर्भ सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः 1, तथा गर्भादवधेर्योनि गर्भ निर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः 2, तथा योनीतो योनिद्वारेण गर्भ संहरति गर्भाशयं प्रवेशयतीत्यर्थः 3, तथा योनीतो योनेः सकाशाद्योनि संहरति नयति योन्योदरानिष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः 4, एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह परामुसिए इत्यादि, परामृश्य 2 तथाविधकरणव्यापारेण संस्पृश्य 2 स्त्रीगर्भमव्याबाधमव्याबाधेन सुखंसुखेनेत्यर्थः, योनीतो योनिद्वारेण निष्काश्य गर्भ