________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 363 // 5 शतके | उद्देशक:४ |शब्दाधिकारः। | सूत्रम् 186 छद्मस्थकेवलिनो स्यिोत्सुकतानिंद्रा तत्कारण तत्कर्मबन्धादि प्रश्नाः / वीणादिवाद्यानि तजनितशब्दा अपि तताः, एवमन्यदपि पदत्रयम्, नवरमयं विशेषस्ततादीनाम्, ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् / घनं तु काश्यतालादि, वंशादि शुषिरं मतम् ॥१॥इति / 2 पुट्ठाई सुणेई त्यादि तु प्रथमशत आहाराधिकारवदवसेयमिति / 3 आरगयाइंति, आराद्भागस्थितानिन्द्रियगोचरमागतानित्यर्थः, पारगयाइंति, इन्द्रियविषयात्परतोऽवस्थितानिति, 4 सव्वदूरमूलमणंतियं ति सर्वथा दूरं विप्रकृष्टं मूलं च निकटं सर्वदूरमूलं तद्योगाच्छब्दोऽपि सर्वदूरमूलोऽतस्तम्, अत्यर्थं दूरवर्तिनमत्यन्तासन्नंचेत्यर्थः, अन्तिकमासन्नं तन्निषेधादनन्तिकम्, नञोऽल्पार्थत्वान्नात्यन्तमन्तिकमदूरासन्नमित्यर्थः, तद्योगाच्छब्दोऽप्यनन्तिकोऽतस्तम्, अथवा सव्व त्ति, अनेन सव्वओ समंते त्युपलक्षितम्, दूरमूलं ति, अनादिकमितिहृदयम्, अणंतियं ति, अनन्तिकमित्यर्थः, 5 मियंपित्ति परिमाणवद्गर्भजमनुष्यजीवद्रव्या(दीत्या)दि, अमियंपित्ति, अनन्तमसङ्ख्येयं वा वनस्पतिपृथिवीजीवद्रव्यादि सव्वं जाणई त्यादि द्रव्याद्यपेक्षयोक्तम् / अथ कस्मात् सर्वं जानाति केवलीत्याधुच्यते? इत्यत आह अणंत इत्यादि, अनन्तं ज्ञानमनन्तार्थविषयत्वात्, तथा निव्वुडे नाणे केवलिस्स त्ति निर्वृतं निरावरणं ज्ञानं केवलिनः क्षायिकत्वाइच्छुद्धमित्यर्थः, वाचनान्तरे तु निव्वुडे वितिमिरे विसुद्धे त्ति विशेषणत्रयं ज्ञानदर्शनयोरभिधीयते, तत्र च निर्वृत्तं निष्ठागतं वितिमिरं क्षीणावरणमत एव विशुद्धमिति // 185 // अथ पुनरपि छद्मस्थमनुष्यमेवाश्रित्याह, ६छउमत्थे णं भंते! (मणुस्से) हसेज वा उस्सुयाएज वा?,हंता हसेज वा उस्सुयाएज वा, 7 जहाणं भंते! छउमत्थे मणुस्से हसेज जाव उस्सु० तहाणं केवलीवि हसेज वा उस्सुया० वा?, गोयमा! नो इणढे समढे, 8 से केण भंते! जाव नो णंतहा केवली हसेज्ज वा जाव उस्सुया० वा?, गोयमा! जणं जीवा चरित्तमोहणिज्जस्सकम्मस्स उदएणं हसंति वा उस्सुयायति वासेणं केवलिस्स नत्थि, से तेणटेणं जाव नो णं तहा के हसेज वा उस्सुया० वा / 9 जीवेणं भंते! हसमाणे वा उस्सुयमाणे वा कइ कम्मपयडीओ बंधइ?, // 363 //