________________ | श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् | भाग-१ // 11 // नमो सुयस्स।सूत्रम् 3 // नमो सुयस्स त्ति नमस्कारोऽस्तु श्रुताय द्वादशाङ्गीरूपायाहत्प्रवचनाय, नन्विष्टदेवतानमस्कारो मङ्गलार्थो भवति, न च श्रुतमिष्टदेवतेति कथमयं मङ्गलार्थ इति?, अत्रोच्यते, श्रुतमिष्टदेवतैव, अर्हतां नमस्करणीयत्वात्, सिद्धवत्, नमस्कुर्वन्ति च श्रुतमर्हन्तो नमस्तीर्थाये ति भणनात्, तीर्थं च श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात्, तदाधारत्वेनैव च सङ्घस्य तीर्थशब्दाभिधेयत्वात्, तथा सिद्धानपि मङ्गलार्थमर्हन्तो नमस्कुर्वन्त्येव काऊण नमोक्कारं सिद्धाणमभिग्गहंतु सो गिण्हेइति वचनादिति॥ 3 // (विशेषा०भा०गा०३२१० टीका) एवं तावत्प्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च यथोद्देशं निर्देश इति न्यायमाश्रित्यादितः प्रथमोद्देशकार्थप्रपञ्चोवाच्यः, तस्य च गुरुपर्वक्रमलक्षणंसम्बन्धमुपदर्शयन्भगवान्सुधर्मस्वामी जम्बूस्वामिनमाश्रित्येदमाह तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामंचेइए होत्था, सेणिए राया, चेल्लणा देवी॥सूत्रम् 4 // अथ कथमिदमवसीयते यदुत सुधर्मस्वामी जम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवानिति?, उच्यते, सुधर्मस्वामिवाचनाया ? एवानुवृत्तत्वात्, आह च तित्थं च सुहम्माओ निरवच्चा गणहरा सेसासुधर्मस्वामिनश्चजम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येयं वाचना प्रवृत्तेति, तथा षष्ठाङ्ग उपोद्घात एवं दृश्यते, यथा किल सुधर्मस्वामिनं प्रति जम्बूनामा प्राह जइ णं भंते! पंचमस्स ®सिद्धानां नमस्कारं कृत्वैवं सोऽभिग्रहं गृह्णाति। (r) सुधर्मणस्तीर्थं च शेषा गणधरा निरपत्याः (सिद्धाः)। (c) यदि भदन्त! पञ्चमस्याङ्गस्य - 1 शतके उपोद्धातः। सूत्रम् 3 श्रुतदेवतानमस्कारः। इष्टत्वहेतुः। उद्देशकः१ सूत्रम् 4 राजगृह गुणशिलचैत्यादि वर्णनम्।