SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 10 // १शतके उपोद्धातः। दशोद्देशकसंग्रहगाथा। उद्देशकानामर्थः। द्याभिधेयाभिधानद्वारेण संग्रहीतुमिमां गाथामाह___ रायगिह चलण दुखे कंखपओसे य पगइ पुढवीओ। जावंते नेरईए बाले गुरुए य चलणाओ॥१॥ अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवावगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयतेतत्र रायगिहेति लुप्तसप्तम्येकवचनत्वाद्राजगृहे नगरे वक्ष्यमाणोद्देशकदशकस्यार्थो भगवता श्रीमहावीरेण दर्शित इति व्याख्येयम्, एवमन्यत्रापीष्टविभक्त्यन्तताऽवसेया। चलणत्तिचलनविषयः प्रथमोद्देशकः, चलमाणे चलिए इत्याद्यर्थनिर्णयार्थ इत्यर्थः 1, दुक्खेत्ति दुःखविषयो द्वितीयः, जीवो भदन्त! स्वयंकृतं दुःखं वेदयती त्यादिप्रश्ननिर्णयार्थ इत्यर्थः२, कंखपओसे त्ति काशा मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपोजीवपरिणामः स एव प्रकृष्टो दोषो जीवदूषणं कासाप्रदोषस्तद्विषयस्तृतीयः, जीवेन भदन्त! कासामोहनीयं कर्म कृतमि त्याद्यर्थनिर्णयार्थ इत्यर्थः 3, चकारः समुच्चये, पगइत्ति प्रकृतयःकर्मभेदाच्चतुर्थोद्देशकस्यार्थः, कति भदन्त! कर्मप्रकृतयः? इत्यादिश्चासौ 4, पुढवीओ त्ति रत्नप्रभादिपृथिव्यः पञ्चमे वाच्याः, कति भदन्त! पृथिव्यः? इत्यादि च सूत्रमस्य 5, जावंते त्ति यावच्छब्दोपलक्षितः षष्ठः, यावतो भदन्त! अवकाशान्तरात्सूर्य इत्यादिसूत्रश्चासौ 6, नेरइए / त्ति नैरयिकशब्दोपलक्षितः सप्तमः, नैरयिको भदन्त! निरये उत्पद्यमान इत्यादि च तत्सूत्रम् 7, बाले त्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालो भदन्त! मनुष्य इत्यादिसूत्रश्चासौ 8, गुरुए त्ति गुरुकविषयो नवमः, कथं भदन्त! जीवा गुरुकत्वमागच्छन्ति? इत्यादि च सूत्रमस्य 9, चः समुच्चयार्थः, चलणाओ त्ति बहुवचननिर्देशाच्चलनाद्या दशमोद्देशकस्यार्थाः 10, तत्सूत्रं चैवम्, अन्ययूथिका भदन्त! एवमाख्यान्ति- चलद् अचलितमित्यादी ति प्रथमशतोद्देशकसङ्ग्रहणिगाथार्थः॥१॥तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह // 10 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy