SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 360 // सायुष्को प्रश्नाः / आजाइसहस्सेसुत्ति, अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणभूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामा- 5 शतके उद्देशकः३ जातीनांच बहुशतसहस्रसङ्गयत्वात्, आनुपूर्वाग्रथितानीत्यादि पूर्ववद्व्याख्येयंनवरमिह भारिकत्वं कर्मपुद्गलापेक्षया वाच्यम्॥ जालिग्रन्थिअथैतेषामायुषां को वेदनविधिः? इत्याह, एगेविये त्यादि, एकोऽपिचजीव आस्तामनेकः, एकेन समयेनेत्यादि प्रथमशतकवत्, काऽधिकारः। (पं०५) अत्रोत्तरं जे ते एवमाहंस्वि त्यादि, मिथ्यात्वं चैषामेवम्, यानि हि बहूनां जीवानांबहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति / सूत्रम् 184 नैरयिकादीनां तानि यथास्वं जीवप्रदेशेषुसंबद्धानिस्युरसंबद्धानिवा?, यदिसंबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषांजालग्रन्थिका त्पत्त्यादि कल्पना कल्पयितुंशक्या?, तथापि तत्कल्पने जीवानामपि जाल ग्रन्थिकाकल्पत्वं स्यात्तत्संबद्धत्वात्, तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्वभवभवनप्रसङ्ग इति, अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेति, यच्चोक्तमेको जीव एकेन समयेन द्वे आयुषी वेदयति तदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वयप्रसङ्गादिति / अहं पुण गोयमे त्यादि, इह पक्षे जालग्रन्थिका सङ्कलिकामात्रम्, एगमेगस्से त्यादि, एकैकस्य जीवस्य न तु बहूना बहुधाऽऽजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापेक्षया सत्सु बहून्यायुः सहस्राण्यतीतानि वर्तमानभवान्तान्यन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वाणि परस्परं प्रतिबद्धानि भवन्ति न पुनरेकभव एव बहूनि, इहभवियाउयं वत्ति वर्तमानभवायुः परभवियाउयं वत्ति परभवप्रायोग्यं यद्वर्त्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते परभवियाउयं वत्ति // 183 // आयुः। प्रस्तावादिदमाह, २जीवेणं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते! किं साउए संकमइ निराउए संकमइ?, गोयमा! सा० सं० नो निराउए सं०।३सेणं भंते! आउए कहिं कडे? कहिं समा०?,गोयमा! पुरिमे भवे कडे पुरिमे भवेसमाइण्णे, एवं जाव वेमाणियाणं दंडओ। // 360 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy