________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 359 // 5 शतके उद्देशक:३ जालिग्रन्थिकाऽधिकारः। सूत्रम् 183 जालिग्रन्थिकादृष्टान्तेन एकसमये व्यायुर्वेदन अन्ययूथिक प्रश्राः / पडिसंवेदेइ जाव से कहमेयं भंते! एवं ?, गोयमा! जन्नं ते अन्नउत्थिता तं चेव जाव परभवियाउयंच, जे ते एवमाहंसुतं मिच्छा, अहं पुण गोयमा! एवमातिक्खामि जाव परूवेमि जहा नामए जाल गंठिया सिया जाव अन्नमन्नघडताए चिटुंति, एवामेव एगमेगस्स जीवस्स बहूहिं आजातिसहस्सेहिं बहूई आउयसहस्साइं आणुपुव्विंगढियाइं जाव चिटुंति, एगेवि य णं जीवे एगेणं समएणं एगं आउयं पडिसं०, तंजहा- इहभवि० वा परभवि० वा, जं समयं इहभवि० पडिसं० नो तं समयं पर० पडिसं जं समयं प० नो तं समयं इहभवि० पडि०, इहभवियाउयस्स पडिसंवेयणाए नो परभवि० पडिसं० परभवियाउयस्स पडिसंवेयणाए नो इहभवि० पडिसं०, एवं खलु एगे जीवे एगेणं समएणं एगं आउयं पडि० तंजहा- इहभ० वा परभ० वा / / सूत्रम् 183 // अन्नउत्थियाण मित्यादि, जालगंठिय त्ति जालं मत्स्यबन्धनंतस्येव ग्रन्थयो यस्यांसाजालग्रन्थिकाजालिका, किंस्वरूपा सा? इत्याह, आणुपुल्विंगढिय त्ति, आनुपूर्व्या परिपाट्या ग्रथिता गुम्फिता आधुचितग्रन्थीनामादौ विधानादन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह, अनंतरगढिय त्ति प्रथमग्रन्थीनामनन्तरं व्यवस्थापितैर्ग्रन्थिभिः सह ग्रथिताऽनन्तरग्रथिता, एवं परम्परैर्व्यवहितैः सह ग्रथिता परम्परग्रथिता, किमुक्तं भवति? अन्नमन्नगढिय त्ति अन्योऽन्यं परस्परेण, एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येवं ग्रथिताऽन्योऽन्यग्रथिता, एवंच, अन्नमन्नगरुयत्ताए त्ति, अन्योऽन्येन ग्रन्थनाद्गुरुकता विस्तीर्णताऽन्योऽन्यगुरुकता तया, अन्नमनभारियत्ताए त्ति, अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्योऽन्यभारिकंतद्भावस्तत्ता तया, एतस्यैव प्रत्येकोक्तार्थद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह, अन्नमन्नगुरुयसंभारियत्ताए त्ति, अन्योऽन्येन गुरुकं यत्सम्भारिकंच तत्तथा तद्भावस्तत्ता तया, अन्नमन्नघडताए त्ति, अन्योऽन्यं घटा, समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया चिट्ठइ त्ति, आस्ते, इति दृष्टान्तोऽथ दान्तिक उच्यत एवामेव त्ति, अनेनैव न्यायेन बहूनां जीवानां सम्बन्धीनि बहूसु