________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ | // 349 // ५शतके उद्देशकः१ चम्पारविरधिकारः। सूत्रम् 177 पूर्वपश्चिमो|त्तरदक्षिणार्धेषु | दिन रात्रिजघन्योत्कृष्टमान प्रश्नाः। दशभिर्भागे हृते यल्लब्धं तस्य त्रिगुणितत्वे एतस्य भावादिति / जघन्यरात्रिक्षेत्रप्रमाणंचाप्येवमेव, नवरं परिधेर्दशभागो द्विगुणः कार्यः, तत्राद्यं षड् योजनानां सहस्राणि, त्रीणि(च) शतानि चतुर्विंशत्यधिकानि षट् च दशभागा योजनस्य 6324 द्वितीय तु त्रिषष्टिः सहस्राणि द्वे पञ्चचत्वारिंशदधिके योजनानांशते,षट्च दशभागायोजनस्य६३२४५,०,सर्वलघौच दिवसे तापक्षेत्रमनन्तरोक्तरात्रिक्षेत्रतुल्यम्, रात्रिक्षेत्रं त्वनन्तरोक्ततापक्षेत्रतुल्यमिति, आयामतस्तु तापक्षेत्रं जम्बूद्वीपमध्ये पञ्चचत्वारिंशद्योजनानां सहस्राणीति, लवणे च त्रयस्त्रिंशत्सहस्राणि, त्रीणि शतानि, त्रयस्त्रिंशदधिकानि त्रिभागश्च योजनस्य 33333, उभयमीलने त्वष्टसप्ततिः सहस्राणि त्रीणिशतानि त्रयस्त्रिंशदधिकानि योजनविभागश्चेति 78333 / 3 उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ त्ति, इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिमण्डलानि भवन्ति, एकोनविंशत्यधिकं च तेषां शतं लवणसमुद्रस्य मध्ये भवति, तत्र च सर्वाभ्यन्तरे मण्डले यदा वर्त्तते सूर्यस्तदाष्टादशमुहूर्तों दिवसो भवति, कथम्?, यदा सर्वबाह्ये मण्डले वर्ततेऽसौ तदा सर्वजघन्यो द्वादशमुहूर्तो दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यां दिनस्य वृद्धौत्र्यशीत्यधिकशततमे मण्डले षड् मुहूर्तावर्द्धन्त इत्येवमष्टादशमुहूर्तो दिवसो भवति, अत एव द्वादशमुहूर्त्तारात्रिर्भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य / 6 अट्ठारसमुहुत्ताणंतरे त्ति यदासर्वाभ्यन्तरमण्डलानन्तरे मण्डले वर्त्तते सूर्यस्तदा मुहूर्त्तकषष्टिभागद्वयहीनाष्टादशमुहूर्तो दिवसो भवति,सचाष्टादशमुहूर्तादिवसादनन्तरोऽटादशमुहूर्त्तानन्तरमिति व्यपदिष्टः, सातिरेगा दुवालसमुहुत्ता राइ त्ति द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यामधिका द्वादशमुहूर्त्ता राईभव त्ति रात्रिप्रमाणं भवतीत्यर्थः, यावता भागेन दिनं हीयते तावता रात्रिवर्द्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति // 7 एवं एएणं कमेणमेवमित्युपसंहारे, एतेनानन्तरोक्तेन जयाणं भंते! जंबूद्दीवे 2 दाहिणड्डइत्यनेनेत्यर्थः, ओसारेयव्वं ति दिनमानं ह्रस्वीकार्यम्, // 349 //