________________ 5 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 346 // उद्देशकः१ चम्पारविरधिकारः। सूत्रम् 177 पूर्वपश्चिमोत्तरदक्षिणार्धेषु दिन रात्रिजघन्योत्कृष्टमान प्रश्नाः। प्राचीनम्, उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनंच तत्प्राच्याः प्रत्यासन्नत्वाद्, उदीचीनप्राचीनं दिगन्तरं क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः, उग्गच्छत्ति, उद्गत्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थः, पाईणदाहिणं ति प्राचीनदक्षिणं दिगन्तरं पूर्वदक्षिणमित्यर्थः, आगच्छंति त्ति, आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयंच द्रष्टलोकविवक्षयावसेयम्, तथाहि-येषामदृश्यो सन्तौ दृश्यौ तौ स्यातां ते तयोरुद्गमनं व्यवहरन्ति येषां तु दृश्यौ सन्तावदृश्यौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयौ, आह च जह 2 समए 2 पुरओ संचरइ भक्खरो गयणे। तह तह इओवि नियमा जायइ रयणीय भावत्थो॥१॥ एवं च सइ नराणं उदयत्थमणाई होतऽनिययाई। सइ देसभेएँ कस्सइ किंची ववदिस्सए नियमा॥२॥ सइ चेव य निद्दिडो भद्दमुहुत्तो कमेण सव्वेसिं। केसिंचीदाणिपि य विसयपमाणे रवी जेसिं // 3 // इत्यादि, अनेन च सूत्रेण सूर्यस्य चतसृषु दिक्षु गतिरुक्ता, ततश्च ये मन्यन्ते सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रमुदेतीत्यादि तन्मतं निषिद्धमिति // 176 // इह च सूर्यस्य सर्वतो गमनेऽपि प्रतिनियतत्वात्तत्प्रकाशस्य रात्रिदिवसविभागोऽस्तीति तं क्षेत्रभेदेन दर्शयन्नाह २जया णं भंते! जंबूद्दीवे 2 दाहिणढे दिवसे भवति तदा णं उत्तरढे दिवसे भ० जदा णं उत्तरदेवि दिवसे भ० तदाणं जंबूद्दीवे 2 मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणंराती भ०?, हंता गोयमा! जया णं जंबूद्दीवे 2 दाहिणड्डेवि दिवसे जाव राती(ई) भवति।३ जदाणं भंते! जंबू० मंदरस्स पव्वयस्स पुरच्छिमेणं दिवसे भ० तदाणं पञ्चत्थिमेणवि दिवसे भ० जयाणं पञ्चत्थिमेणं दिवसे भ० तदा 0 यथा यथा समये समये गगने भास्करः पुरतः संचरति तथा तथेतोऽपि नियमाद्रात्रिर्जायत इति भावार्थः // 1 // एवं च सति (सदा) नराणामुदयास्तमयनावनियतौ भवतः (...अस्तम (य) नानि भवन्त्यनियतानि)। सति (स्वक) देशभेदे कस्यचित्किञ्चिद्व्यपदिश्यते नियमात् // 2 // सकृञ्चैव सर्वेषां क्रमेण भद्रमुहूर्तो निर्दिष्ट इति। केषाश्चिदिदानीमपि च स येषां रविर्विषयप्रमाणे / / 3 / /