________________ शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 341 // सूत्रम 174 नयभेदेन ॥चतुर्थशतके नवमोद्देशकः॥ अनन्तरं देववक्तव्यतोक्ताथ वैक्रियशरीरसाधान्नारकवक्तव्यताप्रतिबद्धो नवमोद्देशक उच्यते, तत्रेदमादिसूत्रम्, उद्देशक:९ १नेरइएणं भंते! नेसु उववज्जइ? अनेरइए ने०सु उव०? पन्नवणाए लेस्सापए ततिओ उद्दे० भाणियव्वो जाव नाणाई।सूत्रम् नारकोत्पादः। 174 // चउत्थसए नवमो उद्देसोसमत्तो॥४-९॥ नेरइए ण मित्यादि, लेस्सापए ति सप्तदशपदे तइओ उद्देसओ भाणियव्वो त्ति क्वचिद्दितीय इति दृश्यते स चापपाठ इति, सल चैवम्, गोयमा! नेरइए नेरइएसु उव० नो अणे. नेर. उव. त्यादि, अयं चास्यार्थः, नैरयिको नैरयिकेषूत्पद्यते न पुनरनैरयिकः, कथं पुनरेतत्?, उच्यते, यस्मान्नारकादिभवोपग्राहकमायुरेवातो नारकाद्यायुःप्रथमसमयसंवेदनकाल एव नारकादिव्यपदेशो भवति ऋजुसूत्रनयदर्शनेन, यत उक्तं नयविद्भिः, ऋजुसूत्रस्वरूपनिरूपणं कुर्वद्भिः पलालं न दहत्यग्निर्भिद्यते न घटः क्वचित् / न शून्यान्निर्गमोऽस्तीह, न च शून्यं प्रविश्यते॥१॥ नारकव्यतिरिक्तश्च, नरके नोपपद्यते। नरकान्नारकश्चास्य, न कश्चिद्विप्रमुच्यते॥२॥ इत्यादीनि, जाव नाणाई ति, अयमुद्देशको ज्ञानाधिकारावसानोऽध्येतव्यः, स चायम्, कण्हलेस्से णं भंते! जीवे कयरेसु णाणेसु / होजा?, गोयमा! दोसु वा तिसु वा चउसु वा णाणेसु होज्जा, दोसु होज्जमाणे आभिणिबोहियसुयणाणेसु होज्जे त्यादि।। चतुर्थशते / नवमः॥४-९॥