________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 337 // तया सह प्रबध्नाति ग्रन्थिबन्धं करोतीत्यर्थः, बाह्या त्वनाकारितैवागच्छत्यल्पतमगौरवविषयत्वात्, तस्याश्चार्थपदंवर्णयत्येव, तत्राद्यायां चतुर्विंशतिर्देवानां सहस्राणि द्वितीयायामष्टाविंशतिः तृतीयायां द्वात्रिंशदिति, तथा देवीशतानि क्रमेणाध्युष्टानि (350) त्रीणि सार्द्धच द्वे इति, तथा तद्देवानामायुः क्रमेणार्द्धतृतीयानि पल्योपमानि द्वे सार्द्ध चेति देवीनां तु सार्द्धमेकं तदर्द्ध चेति, एवं बलेरपि नवरं देवप्रमाणं तदेव चतुश्चतुःसहस्रहीनं देवीमानं तु शतेन शतेनाधिकमिति, आयुर्मानमपि तदेव नवरं पल्योपमाधिकमिति, एवमच्युतान्तानामिन्द्राणां प्रत्येकं तिस्रः पर्षदो भवन्ति, नामतो देवादिप्रमाणतः स्थितिमानतश्च क्वचित्किञ्चिद्भेदेन भेदवत्यस्ताश्च जीवाभिगमादवसेया इति // 171 // तृतीयशते दशमः ॥३-१०॥समाप्तं च तृतीयशतम् // 3 शतके उद्देशक: 10 चमरसभाधिकारः। सूत्रम् 171 शमिकाचण्डाजातेति असुरपर्षत्प्रश्नः। श्रीपञ्चमाङ्गस्य शतं तृतीयम्, व्याख्यातमाश्रित्य पुराणवृत्तिम्। शक्तोऽपि गन्तुं भजते हि यानम्, पान्थः सुखार्थं किमु यो न शक्तः? // 1 // ॥इति श्रीमचन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ती तृतीयं शतकं समाप्तम्॥