________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 8 // 1 शतके उपोद्धातः। मङ्गलादीनि सूत्रम् 1 पञ्चपरमेष्ठिनतिः पाठान्तराः शब्दार्थाss दिविवेचनम्। अथवा सव्यानि- दक्षिणान्यनुकूलानि यानि कार्याणि तेषु साधवो निपुणाः श्रव्यसाधवः सव्यसाधवो वाऽतस्तेभ्यः, नमो लोए सव्वसाहूणंति क्वचित्पाठः, तत्र सर्वशब्दस्य देशसर्वतायामपि दर्शनादपरिशेषसर्वतोपदर्शनार्थमुच्यते लोके मनुष्यलोके न तु गच्छादौ ये सर्वसाधवस्तेभ्यो नम इति, एषां च नमनीयता मोक्षमार्गसाहायककरणेनोपकारित्वात्, आह च असहाए सहायत्तं करेंति मे संयमं करेंतस्स / एएण कारणे णं णमामिऽहं सव्वसाहूणं ॥१॥ति / ननु यद्ययं सझेपेण नमस्कारस्तदा सिद्धसाधूनामेव युक्तः, तद्हणेऽन्येषामप्यर्हदादीनांग्रहणात्, यतोऽर्हदादयोन साधुत्वं व्यभिचरन्ति, अथ विस्तरेण तदर्षभादिव्यक्तिसमुच्चारणतोऽसौवाच्यः स्यादिति, नैवम्, यतोनसाधुमात्रनमस्कारेऽर्हदादिनमस्कारफलमवाप्यते, मनुष्यमात्रनमस्कारे राजादिनमस्कारफलवदिति कर्त्तव्यो विशेषतोऽसौ, प्रतिव्यक्ति तु नासौवाच्योऽशक्यत्वादेवेति / ननु यथाप्रधानन्यायमङ्गीकृत्य सिद्धादिरानुपूर्वी युक्ताऽत्र, सिद्धानां सर्वथा कृतकृत्यत्वेन सर्वप्रधानत्वात्, नैवम्, अहंदुपदेशेन सिद्धानां ज्ञायमानत्वादर्हतामेव च तीर्थप्रवर्त्तनेनात्यन्तोपकारित्वादित्यर्हदादिरेव सा, नन्वेवमाचार्यादिः सा प्राप्नोति, क्वचित्काले आचार्येभ्यः सकाशादर्हदादीनांज्ञायमानत्वात्, अत एव च तेषामेवात्यन्तोपकारित्वात्, नैवम्, आचार्याणामुपदेशदानसामर्थ्यमर्हदुपदेशत एव, न हिस्वतन्त्रा आचार्यादय उपदेशतोऽर्थज्ञापकत्वंप्रतिपद्यन्ते, अतोऽर्हन्त एव परमार्थेन सर्वार्थज्ञापकाः, तथाऽर्हत्परिषद्रूपा एवाचार्यादयोऽतस्तान्नमस्कृत्याहन्नमस्करणमयुक्तम्, उक्तंच ण य कोइवि परिसाए पणमित्ता पणमए रन्नोति // 1 // एवं तावत्पर• मेष्ठिनो नमस्कृत्याधुनातनजनानां श्रुतज्ञानस्यात्यन्तोपकारित्वात्तस्य च द्रव्यभावश्रुतरूपत्वाद्धावश्रुतस्य च द्रव्यश्रुतहेतुकत्वा 0यतोऽसहायस्य मे संयमं कुर्वतः साहायं कुर्वन्ति, एतेन कारणेन सर्वसाधूनमाम्यहम् ॥शा(आ०नि०- नम०नि०)0 न च कोऽपि पर्षद्यन्यं प्रणम्य राजानं प्रणमेत् / (नापि कश्चिद् परिषदे प्रणम्य प्रममति राज्ञे ।(विशेषाव० भागा०३२१३)